SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ ४६ ॥ वदनाऽऽमोदविनिर्जितमधुविभवा कापि कामिनी विरहे । भ्रमरगुणं निजचापं कर्षति कामे जिजीव निःश्वासैः निजाय पित्रे मनसे ममत्वभूः सतीव्रतापायभयं ददासि किम् । अनङ्ग किं ते कुसुमाशुगाद्भयं सतीव्रतापायभयं महन्न चेत् ॥ ४७ ॥ मलयमारुतजं भयमालिमे न भवती भवति प्रतिकुर्वती । व्रज बहिर्यदि नो कुरुषे किमप्युचितमेव भुजङ्गमुपानय || 82 || कज्जलं नयनयोर्गलज्जलं स्वेदवारहरदङ्गलेपनम् । तत्र मामपि नियुज्य वैससो व्यत्ययं किमकृथा वृथा विटे ॥ ४९ ॥ स्मरशरकुसुमोद्यद्रेणुधारान्धकारे पथिक पथि कथं ते यानमानन्दकन्दाः | विरहविधुरचिन्ता चिन्तयन्ती भवन्तं कृतदयशयने मा नूनमेकाकिनी भूत् नानाविनोदकुशलाः परितोऽपि सख्यो दीर्घं दिनं गमयितुं प्रभवन्ति मुग्धे । रात्रौ तु बन्धुजनवागमृतेन सिक्ता का नाम काममुपयाति सुखं न निद्राम् एकाकिनी विरचिता विधिना ये दोषा कुर्वन्ति तद्वधिकृतं वितथं न सख्यः । तस्यास्तु बान्धवजनस्य कुतो दया स्यादिष्टो जनस्त्वमिव निर्दयतामुपैति दिष्ट्या स्वयं शुचममुञ्चदशोक एक: पुष्पाणि पश्यत विटे वदनीति काचित् । मध्ये सखी सभमये किमिदं वदन्ती कर्णं निनाय पुरतश्च पदं व्युदास Acharya Shri Kailassagarsuri Gyanmandir ૨૧૩ For Private And Personal Use Only ॥ ५० ॥ ॥ ५१ ॥ ॥ ५२ ॥ ॥ ५३ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy