SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्मरमोहमयीममी तमी तमसस्तोममुचा रुचा कचाः । रचयन्त्यतिविस्तरं दिनं वदनेन्दुद्युतयो मृगीदृशः ॥१२॥ हरिणीसदृशा दृशाछछवपि नीत्वा विपिने निवेशिता। तपतस्तपनस्य तेन सा सलिलानीप्सति नाम धामनि ॥ १३ ॥ अनिमिषैः समिरैरपि लोचनैर्मुगदृशामिह यः परिपीयते । तममृतं सुकृतैः परितो भृतं कथयताममृतं तदपाकृतम् ॥ १४ ॥ जानन्तु यदि जानन्ति देवा एवान्तरं द्वयोः । प्रेयसीभिः प्रियालापात्पीयूषं न पुन: पृथक् ॥ १५ ॥ सच्छायः सुरसाल एष सुदतीलोको भुजावल्लरी लोलश्रीरधरप्रवालललितः पत्रावलीलीलया। शालसद्बीजराजिराजिततरः पीनस्तनश्रीफलः शश्वद्यस्य वशंवदोऽस्ति सुरतेऽत्याकाङ्क्षते तेन किम् ॥१६॥ रतिरतिपत्योः क्रीडाकनकगिरी कामिनिकुचद्वन्द्वम् । यौवनविधिना विहिताविह मेघं पश्यतोऽग्रतः किं स्यात् ॥ १७ ॥ तीर्थं मन्मथदैवतं शुचिरसस्रोतस्विनी संनम न्नाभ्यावर्त्तवती घनोन्नतकुचोपासीनचक्रद्वया । लावण्यत्रिवलीतरङ्गविलसद्रोमावलीशैवला बालाऽऽविष्कुरुते दृगञ्चलचलन्मीना नदी नादरम् ॥ १८ ॥ इदमुरुयुगलजनने कदलीकरणं कृता न केनापि । यदकदलीकरणं स्मरतप्तानामत्र दृश्यते सुदृशि! ॥ १९ ॥ दृष्ट्वा रम्भामनयो रम्भास्तम्भान्वितेति नो चलति । वरमिति संभाव्येते रम्भास्तम्भौ मृगीदृशामूरू ॥ २० ॥ हंसो मानसवासी यत्पदगतिमेतुमीहते सततम् । सुगतितामपहायोपेक्षन्तेऽक्षाणि न क्षणं दक्षैः ॥ २१ ॥ ૨૧૦ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy