SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमस्कारप्रभावेण जीवाः सद्गतिभागिनः । इव हस्तिपकश्चौर्य-कलङ्की त्रिदिवं गतः ॥ १०५ ॥ नानापुराकृतकुकर्मकदर्थनानि, दृष्ट्वा न हास्यरसमाचरति प्रबुद्धः । यद् ब्राह्मणी नृपतिघातपणाङ्गनादिकर्माण्यचीकरदिहैककजन्ममध्ये ॥ १०६॥ महात्मनां निर्ममाणामपि सेवा फलप्रदा। यथा नमि-विनम्योः श्रीवृषभस्वामिसेविनोः ॥ १०७॥ कुर्यात् पराक्रमं भूय आत्ममृत्युभयच्छिदे । कंसस्येव परं मृत्युभीर्धर्मादेव गच्छति ॥ १०८ ॥ व्याधिध्वंसो भवेज्जन्तोर्गुणनेन जिनस्तुतेः । भक्तामरप्रभावेण राजहंसकुमारवत् ॥ १०९ ॥ श्रद्दधाति न जीवादितत्त्वानप्यात्तसंयमः । अङ्गारमईकाचार्य इवाभव्यो निरास्तिक: ॥ ११०॥ भ्रात्रादिष्वपि सौजन्यं प्राणी राज्यादिलोलुपः । तृष्णावशान्न गणयेत् सहजेषु यथाऽऽर्षभिः ॥ १११ ॥ विनयी धर्मयोग्यः स्याद् बुद्ध्यादिगुणभाजनम् । सहकारफलाऽऽकृष्टि-विद्यावाञ्छ्रेणिको यथा ॥११२ ॥ प्राप्य धर्मसमयं सुधीधनो, विस्तराय न विलम्बमाचरेत् । येन बाहुबलिनाऽपि यामिनी-लङ्घनेन वृषभो न वन्दितः ॥ ११३ ।। मन्मथव्याकुलः किञ्चिदपि नो गणयेन्नरः । ब्रह्मदत्तं यथा माता चुलणी मारणोद्यता ॥ ११४ ।। वैफल्यं न नयेत्कर्म वैषम्यं समुपस्थितम् । प्रौढः पुरुषकारोऽपि द्वारवत्यां हरेरिव ।। ११५ ॥ ૧૮૯ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy