SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २१॥ ॥ २२ ॥ ॥ २३॥ ।। २४ ॥ ॥ २५ ॥ || २६॥ अर्हतः प्रतिमामर्त्यां पूजयन् परमार्हतः । कुमारपालक्ष्मापाल इव सम्पदमश्नुते । स्वल्पादप्यागमवचःश्रवणात् क्षणमात्रतः । चिलातीनन्दनस्येव भवेद् बोधः सुमेधसाम् विनश्वरौदारिकस्यासारस्य वपुषः फलम् । तप:परोपकारादि गृह्णीयात् तुर्यचक्रिवत् यथाशक्ति ग्लानसाधुवैयावृत्त्यादिभक्तितः । श्रमणी पुष्पचूलेव लभते परमं पदम् अर्हच्चैत्यादिभक्त्यर्थं जीव: कष्टान्यपि क्षमेत् । अष्टापदार्थं सगरचक्रिणस्तनया इव दद्याद् भागवती भक्ति: पदवी परमेष्ठिनः । एकाऽपि भावत: क्लृप्ता कूणिक्षोणिपतेरिख आर्यः कुर्याद् धर्मरागमस्थिमज्जाधिवासितम् । अभेद्यं तस्करक्लृप्त-नारीकार्मणवद् दृढम् सुखाभिलाषी कस्यापि न कुर्यादन्तरायकम् । दुर्विपाकस्तदुदयो ढण्ढणाङ्गजवद् भवेत् श्रामण्यसारभूतायाः समतायाः प्रभावतः । संसारपारगामी स्याच्छरीरी कूरगट्ट(ड्ड)वत् ज्वालाजिहूं जलेनेव क्रोधं शमयता तथा। निर्वापयेत् परस्यापि चण्डरुद्रस्य शिष्यवत् वार्धक्येऽपि विधातव्यो धीमताऽध्ययनोद्यमः । यत्प्रसादं ददौ ब्राह्मी सूरेः श्रीवृद्धवादिनः पठनायोद्यमः कार्यो धर्मतः स्खलितोऽपि यत् । पठितः स्थानमागच्छेच्छ्रीरत्नाकरसूरिवत् ॥ २७॥ ॥ २८॥ ॥ २९ ॥ ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ૧૮૨ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy