SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रासादे कलशाधिरोपणसमं बिम्बे प्रतिष्ठोपमं, पुण्यश्रीस्फुटसंविभागकरणं बिभ्रद्विशिष्टे जने । सौभाग्योपरिमञ्जरीप्रतिनिभं पूर्णे तपस्याविधौ यः शक्त्योद्यापनं करोति विधिना सम्यग्दृशां सोऽग्रणीः ज्ञेयान्यङ्गानि दानादीन्येव धर्मनरेशितुः तस्य तेष्वधुना जीवो, भावना सा निगद्यते थोवं पि अणुवाणं भावविसुद्धं हणइ कम्ममलं । लहुओ वि सहसकिरणो तिमिरसमूहं पणासेइ जिनभवनबिम्बपुस्तकचतुर्विधश्रमणसङ्घरूपाणि । सप्तक्षेत्राणि सदा, जयन्ति जिनशासनोक्तानि रम्यं येन जिनालयं निजभुजोपात्तेन कारापितं मोक्षार्थं स्वधनेन शुद्धमनसा पुंसा सदाचारिणा । वेद्यं तेन नरामरेन्द्रमहितं तीर्थेश्वराणां पदं, प्राप्तं जन्मफलं कृतं जिनमतं गोत्रं समुद्द्द्योतितम् ये कारयन्ति जिनमन्दिरमादरेण बिम्बानि तत्र विविधानि विधापयन्ति । सम्पूजयन्ति विधिना सततं जयन्ति, ते पुण्यभाजनजना जनितप्रमोदाः Acharya Shri Kailassagarsuri Gyanmandir श्रीमज्जैनगृहे जिनप्रतिकृतौ जैनप्रतिष्ठाविधौ, श्रीजैनस्पने जिनार्चनविधौ श्रीसङ्घपूजादिके । श्री जैनागमलेखने च सततं श्रीतीर्थयात्रादिके, येषां स्वं विनियोगमेति धनिनां धन्यास्त एव क्षितौ जिनभवनं जिनबिम्बं, जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामर शिवसुखफलानि करपल्लवस्थानि १८७ For Private And Personal Use Only ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ 1182 11 ॥ १९ ॥ ॥ २० ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy