SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ ३३ ॥ सा पुण्डरीकवदना मदनावरुग्णमस्मन्मनोहरिणमङ्कगतं चकार आस्यं दास्यदशातिदेशि शशिनः कातर्यचर्याङ्कितस्फाराऽक्षेक्षणकल्पदत्तहरिणस्त्रीवीक्षणं वीक्षणम् । भ्रूविभ्रान्तिरनङ्गचापलतिकालीलाकृताचार्यका किं वा खर्वितसर्वगर्वविभवं नाऽस्या मनोज्ञाकृते: सत्यं सख्यविकल्पदृक्क्षणिकधीर्नष्टायक : सौगतः, प्रामाण्येन न यो ब्रवीत्यवितथज्ञाने विकल्पस्मृती । यस्मादस्मि विकल्पतल्पशयितं प्रेयांसमङ्गस्पृशं, स्मृत्वा केलिकलां च तां रतिफलं विन्दामि निन्दामि च यस्य स्वप्नसमागमेऽपि समभूत्सा काऽप्यवस्था मनो, यत्रानन्दनदावगाहि तु सुधा सारोक्षितं नु क्षणात् । आसीत् सोऽपि जनो ह हा !! विधिवशात् तस्यापि मे चेतसो, दृष्टोऽप्यन्यजनायते झगिति तद् धिक् प्रेम निःस्थेम यत् ॥ ३४ ॥ यदेतत् तन्वड्या नयननलिनाढ्यं मुखसरस्तरत्यत्रं (?) नीलाऽलकविपुलसेवालपटलम् । लसल्लावण्याम्भः प्रसरमरमुत्तापहतये ( ? ), स्मरज्ज्वालाजालग्लपितवपुषामेष विषयः मृद्वङ्गीति तनूदरीति विलसल्लावण्यवापीति वा, बिम्बोष्ठीति पृथुस्तनीति सुमुखीत्याऽऽवर्त्तनाभीति च । शृङ्गारोरुतरङ्गिणीति हृदयस्मेराम्बुजाक्षीति च, स्मारं स्मारमरे ! स्मरज्वरभरभ्रान्तं किमुत्ताम्यसि स्त्रीपुंसाः सखि तावदत्र दधतस्तास्ता दशा रागिणोः, प्रेमप्रेमवियोगयोगजनितं दुःखं सुखं वाप्नुयुः । €3 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir · 11 32 11 ॥ ३२ ॥ 11 34 11 ॥ ३६ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy