SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ -30:१-३०] १. धर्मोपदेशामृतम् 28) अर्थादौ प्रचुरप्रपञ्चरचनैये वञ्चयन्ते परान् नूनं ते नरकं व्रजन्ति पुरतः पापव्रजादन्यतः । प्राणाः प्राणिषु तन्निबन्धनतया तिष्ठन्ति नष्टे धने यावान् दुःखभरो नरे न मरणे तावानिह प्रायशः ॥२८॥ 29 ) चिन्ताव्याकुलताभयारतिमतिभ्रंशातिदाहभ्रम क्षुत्तृष्णाहतिरोगदुःखमरणान्येतान्यहो आसताम् । यान्यत्रैव पराङ्गनाहितमतेस्तद्भरि दुःखं चिरं श्वभ्रे भावि यदग्निदीपितवपुलॊहाङ्गनालिङ्गनात् ॥ २९॥ 30) धिक् तत्पौरुषमासतामनुचितास्ता बुद्धयस्ते गुणाः मा भून्मित्रसहायसंपदपि सा तजन्म यातु क्षयम् । लोकानामिह येषु सत्सु भवति व्यामोहमुद्राङ्कितं स्वप्ने ऽपि स्थितिलचनात्परधनस्त्रीषु प्रसक्तं मनः ॥३०॥ कस्मान्मोहं गच्छत ॥ २७ ॥ ये नराः । अर्थादौ विषये । प्रचुरप्रपञ्चरचनैः बहुलपाखण्डविशेषैः रचनाविशेषैः । परान् लोकान् वश्चयन्ते । ते नराः । नूनं निश्चितम् । अन्यतः पापव्रजात् पापसमूहात् पुरतः नरकं व्रजन्ति । प्राणिषु जीवेषु । प्राणाः । तन्निबन्धनतया तस्य द्रव्यस्य आधारत्वेन तिष्ठन्ति । इह लोके संसारे । नरे मनुष्ये। यावान्दुःखभरः धने नष्टे सति प्रायशः बाहुल्येन भवति तावान्दुःखभरः मरणे न भवति ॥ २८ ॥ अहो इत्याश्चर्ये । पराङ्गनाहितमतेः पुरुषस्य पराङ्गनासु आहिता मतिर्येन स तस्य पराङ्गनाहितमतेः । एतानि दुःखानि । आसतां तिष्ठन्तु । तान्येव दर्शयति । चिन्ताव्याकुलताभयारतिमतिभ्रंशातिदाहभ्रम तृष्णाहतिरोगदुःखमरणानि । एतानि दुःखानि आसतां दूरे तिष्ठन्तु । यानि एतानि । अत्रैव जन्मनि भवन्ति । परजन्मनि श्वश्रे नरके। चिरं चिरकालम् । तद्भरि दुःखं भावि यद् दुःखम् अमिदीपितवपुर्लोहाङ्गनालिङ्गनात् भवति ॥ २९ ॥ तत्पौरुषं धिक् । ता बुद्धयः अनुचिताः अयोग्याः। ते गुणाः आसतां दूरे तिष्ठन्तु । सा मित्रसहायसंपत् मा भूत् । तज्जन्म क्षयं यातु । येषु पौरुषादिधनेषु । सत्सु विद्यमानेषु । इह संसारे । लोकानां मनः स्वप्नेऽपि परधन-स्त्रीषु । प्रसक्तम् आसक्तं भवति । कस्मात् । स्थितिलकनात् । किंलक्षणं मनः । व्यामोहमुद्राङ्कितम् ॥ ३० ॥ इह लोके । इति अमुना प्रकारेण । हठात् । एकैकव्यसनाहताः एक क्यों मोहको प्राप्त होते हैं ? अर्थात् उन्हें मोहको छोड़कर हिंसा और परवंचनका परित्याग सदाके लिये अवश्य कर देना चाहिये ॥ २७ ॥ जो मनुष्य धन आदिके कमानेमें अनेक प्रपंचोंको रचकर दूसरोंको ठगा करते हैं वे निश्चयसे उस पापके प्रभावसे दूसरोंके सामने ही नरकमें जाते हैं। कारण यह कि प्राणियोंमें प्राण धनके निमित्तसे ही ठहरते हैं, धनके नष्ट हो जानेपर मनुष्यको जितना अधिक दुःख होता है उतना प्रायः उसे मरते समय भी नहीं होता ॥ २८ ॥ परस्त्रीमें अनुरागबुद्धि रखनेवाले व्यक्तिको जो इसी जन्ममें चिन्ता, आकुलता, भय, द्वेषभाव, बुद्धिका विनाश, अत्यन्त संताप, भ्रान्ति, भूख, प्यास, आघात, रोगवेदना और मरण रूप दुःख प्राप्त होते हैं; ये तो दूर रहें । किन्तु परस्त्रीसेवनजनित पापके प्रभावसे जन्मान्तरमें नरकगतिके प्राप्त होनेपर अग्निमें तपायी हुई लोहमय स्त्रियोंके आलिंगनसे जो चिरकाल तक बहुत दुःख प्राप्त होनेवाला है उसकी ओर भी उसका ध्यान नहीं जाता, यह कितने आश्चर्यकी बात है ॥ २९ ॥ जिस पौरुष आदिके होनेपर लोगोंका व्यामोहको प्राप्त हुआ मन मर्यादाका उल्लंघन करके स्वप्नमें मी परधन एवं परस्त्रियोंमें आसक्त होता है उस पौरुषको धिक्कार है, वे अयोग्य विचार और वे अयोग्य गुण दूर ही रहें, ऐसे मित्रोंकी सहायता रूप सम्पत्ति भी न प्राप्त हो, तथा वह जन्म भी नाशको प्राप्त हो जाय । रमेश तस्य तव्यस्य ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy