SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पद्मनन्दि-पञ्चविंशतिः 11 स्वर्गायावतिनो ऽपि साईमनसः श्रेयस्करी केवला सर्वप्राणिदया तया तु रहितः पापस्तपस्स्थो ऽपि वा । तद्दानं बहु दीयतां तपसि वा चेतश्विरं धीयतां ध्यानं वा क्रियतां जना न सफलं किंचिद्दयावर्जितम् ॥ ११ ॥ 12) सन्तः सर्वसुरासुरेन्द्रमहितं मुक्तेः परं कारणं रत्नानां दधति त्र्यं त्रिभुवनप्रद्योति काये सति । वृत्तिस्तस्य यदन्नतः परमया भक्त्यार्पिताज्जायते तेषां सद्गृहमेधिनां गुणवतां धर्मो न कस्य प्रियः ॥ १२ ॥ 13 ) आराध्यन्ते जिनेन्द्रा गुरुषु च विनतिर्धार्मिकैः प्रीतिरुच्चैः पात्रेभ्यो दानमापनिहतजनकृते तच्च कारुण्यबुद्ध्या । [ 11 : १-११ 1 प्राणिनः । तेन जीवितेन विना स राज्यभावः कस्य भविता इति आकाङ्क्षतः वाञ्छतः ॥ १० ॥ सर्वप्राणिदया | सार्द्रमनसः क्षमासहितजीवस्य । खर्गाय भवति । किंलक्षणस्य प्राणिनः । अव्रतिनोऽपि व्रतरहितस्यापि । किंलक्षणा दया । केवला । श्रेयस्करी सुखकारिणी च । तया जीवदयया रहितः तपस्स्थोऽपि तपः सहितोऽपि । पापः पापिष्ठः । तद्विना दानं बहु दीयताम् । वा अथवा । तपसि विषये । चिरं चिरकालम् । चेतः धीयतामारोप्यताम् । भो जनाः ध्यानं वा क्रियताम् । भो जनाः दयावर्जितं किंचित् सफलं न फलदायकं न ॥ ११ ॥ सन्तः साधवः । रत्नानां त्रयम् । दधति धारयन्ति । किंलक्षणं रत्नानां त्रयम् । सर्वसुरासुरेन्द्रमहितं सर्वे सुरेन्द्रा असुरेन्द्राः तैः । महितं' पूजितम् । पुनः किंलक्षणं रत्नानां त्रयम् । मुक्तेः परं कारणम् । पुनः किंलक्षणम् । त्रिभुवनप्रद्योति त्रिभुवनं प्रद्योतयति तत् त्रिभुवनप्रद्योति । सन्तः क्व सति धारयन्ति रत्नानां त्रयम् । काये सति शरीरे सति । यदन्नतः सकाशात् तस्य शरीरस्य वृत्तिर्जायते प्रवर्तनं जायते । किंलक्षणात् अन्नतः । तैः गृहस्थैः परमया श्रेष्ठतरया भक्त्या कृत्वा अर्पितस्तस्मात् । तेषां सद्गृहमेधिनां गुणवतां गुणयुक्तानां धर्मः कस्य जीवस्य प्रियः न । अपि तु सर्वेषां प्रियः श्रेष्ठः ॥ १२ ॥ इह लोके संसारे । तद्रार्हस्थ्यं बुधानां बुधैः पूज्यं यत्र गार्हस्थ्ये जिनेन्द्रा आराध्यन्ते । च पुनः । गुरुषु विनतिः क्रियते । धार्मिकैः पुरुषैः । उच्चैः अतिशयेन प्रीतिः क्रियते । यत्र गृहपदे पात्रेभ्यो दानं दीयते । च पुनः । तद्दानं आपन्निहतजनकृते आपत्पीडितमनुष्ये । कारुण्यबुद्ध्या दीयते । यत्र गृहपदे तत्त्वाभ्यासः क्रियते । यत्र गृहपदे खकीयव्रत रतिः स्वकीयव्रते अनुरागः जिसका चित्त दयासे भीगा हुआ है वह यदि व्रतोंसे रहित भी हो तो भी उसकी कल्याणकारिणी एक मात्र सर्वप्राणिदया स्वर्गप्राप्तिकी निमित्तभूत होती है । इसके विरुद्ध उक्त प्राणिदयासे रहित प्राणी तपमें स्थित होकर भी पापिष्ठ माना जाता है । अत एव हे भव्य जनो ! चाहे आप बहुत-सा दान देवें, चाहे चिर काल तक चित्तको तपमें लगावें, अथवा चाहे ध्यान भी क्यों न करें, किन्तु दयाके विना वह सब निष्फल रहेगा ॥ ११॥ जो रत्नत्रय (सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र) समस्त देवेन्द्रों एवं असुरेन्द्रोंसे पूजित है, मुक्तिका अद्वितीय कारण है तथा तीनों लोकोंको प्रकाशित करनेवाला है उसे साधु जन शरीरके स्थित रहनेपर ही धारण करते हैं । उस शरीरकी स्थिति उत्कृष्ट भक्ति से दिये गये जिन सद्गृहस्थोंके अन्नसे रहती है उन गुणवान् सद्गृहस्थों (श्रावकों ) का धर्म भला किसे प्रिय न होगा ? अर्थात् सभी को प्रिय होगा ॥ १२ ॥ जिस गृहस्थ अवस्था में जिनेन्द्रोंकी आराधना की जाती है, निर्ग्रन्थ गुरुओंके विषयमें विनय युक्त व्यवहार किया जाता है, धर्मात्मा पुरुषोंके साथ अतिशय वात्सल्य भाव रखा जाता है, पात्रोंके लिये दान दिया जाता है, वह दान आपत्तिसे पीड़ित प्राणीके लिये भी दयाबुद्धिसे दिया जाता है, तत्त्वोंका परिशीलन किया जाता है, अपने व्रतोंसे अर्थात् गृहस्थधर्मसे प्रेम किया जाता है, तथा निर्मल सम्यग्दर्शन धारण किया १ अ सर्वसुरेन्द्रअसुरेन्द्रस्तैर्महितम्, क सर्वसुरेन्द्रासुरेन्द्रास्तैर्महितम् । २ श सकाशत् शरीरस्य ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy