SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ -787 : १५-१२] १५ श्रुतदेवतास्तुतिः २२१ 782) तदस्तु तावत्कवितादिकं नृणां तव प्रभावात्कृतलोकविस्मयम् । भवेत्तदप्याशु पदं यदीक्षते तपोभिरुग्रैर्मुनिभिर्महात्मभिः ॥७॥ 783 ) भवत्कला यत्र न वाणि मानुषे न वेत्ति शास्त्रं स चिरं पठन्नपि । मनागपि प्रीतियुतेन चक्षुषा यमीक्षसे कैर्न गुणैः स भूष्यते ॥ ८॥ 784 ) स सर्ववित्पश्यति वेत्ति चाखिलं न वा भवत्या रहितो ऽपि बुध्यते । तदत्र तस्यापि जगन्नयप्रभोस्त्वमेव देवि प्रतिपत्तिकारणम् ॥९॥ 785) चिरादतिक्लेशशतैर्भवाम्बुधौ परिभ्रमन् भूरि नरत्वमश्नुते । तनूभृदेतत्पुरुषार्थसाधनं त्वया विना देवि पुनः प्रणश्यति ॥ १० ॥ 786 ) कदाचिदम्ब त्वदनुग्रहं विना श्रुते ह्यधीते ऽपि न तत्त्वनिश्चयः । ततः कुतः पुंसि भवेद्विवेकिता त्वया विमुक्तस्य तु जन्म निष्फलम् ॥११॥ 787 ) विधाय मातः प्रथमं त्वदाश्रयं श्रयन्ति तन्मोक्षपदं महर्षयः । प्रदीपमाश्रित्य गृहे तमस्तते यदीप्सितं वस्तु लभेत मानवः ॥ १२॥ एतावता किं सूचितम् । तव मार्गों गहन इत्यर्थः ॥ ६ ॥ भो देवि । तव प्रभावात् नृणां कवितादिकं भवेत् । किंलक्षणं कवितादिकम् । कृतलोकविस्मयम् । तत्कवितादिकं तावत् दूरे तिष्ठतु । तव प्रभावात् । तत्पदम् अपि । आशु शीघ्रण । भवेत् । यत्पदं महात्मभिः मुनिभिः । उप्रैः तपोभिः । ईश्यते अवलोक्यते ॥ ७॥ भो वाणि भो देवि । यत्र यस्मिन् मानुषे भवत्कला न वर्तते स नरः । चिर चिरकालम् । पठन्नपि शास्त्रं न वेत्ति न जानाति । भो देवि । प्रीतियुतेन चक्षुषा मनाग अपि यं नरम् ईक्षसे त्वं विलोकयसि स नरः कैः गुणैर्न भूष्यते । अपि तु सर्वैः भूष्यते ॥ ८ ॥ भो देवि । अत्र लोके । स पुमान् सर्ववित् यः त्वां स्मरति । भवत्या त्वया । रहितः सर्ववित् न । त्वया युक्तः अखिलं समस्तं पश्यति । च पुनः । अखिलं वेत्ति जानाति । वा तस्यापि जगत्प्रभोः वीतरागस्य । प्रतिपत्तिकारणं ज्ञानस्य कारणं त्वमेव ॥ ९॥ भो देवि । तनुभृत् जीवः । भवाम्बुधौ संसारसमुद्रे । भूरि चिरकालम् । परिभ्रमन् चिरात् अतिक्लेशशतैः कृत्वा नरत्वम् अश्नुते प्राप्नोति । पुनः त्वया विना एतत्पुरुषार्थसाधनम् । प्रणश्यति विनाशं गच्छति ॥ १०॥ भो अम्ब भो मातः । त्वदनुग्रहं विना तव प्रसादेन विना । हि यतः । श्रुते अधीतेऽपि शास्त्रे पठिते अपि । तत्त्वनिश्चयः कदाचित् न भवेत् । ततः कारणात् । पुंसि पुरुषे विवेकिता कुतः भवेत् । तु पुनः । त्वया विमुक्तस्य जीवस्य । जन्म मनुष्यपदम् । निष्फलं भवेत् ॥ ११॥ भो मातः । महर्षयः प्रथमं त्वदाआता है और न उसमें किसी प्रकारका विकार भी हो पाता है । इसीलिये वह सदा अक्षुण्ण बना रहता है ॥ ६ ॥ हे देवी! तेरे प्रभावसे मनुष्य जो लोगोंको आश्चर्य उत्पन्न करनेवाली कविता आदि करते हैं वह तो दूर ही रहे, कारण कि उससे तो वह पद ( मोक्ष ) भी शीघ्र प्राप्त हो जाता है जिसे कि महात्मा मुनिजन तीव्र तपश्चरणके द्वारा देख पाते हैं ॥ ७ ॥ हे वाणी ! जिस मनुष्यमें आपकी कला नहीं है वह चिर काल तक पढ़ता हुआ भी शास्त्रको नहीं जान पाता है । और तुम जिसकी ओर प्रीतियुक्त नेत्रसे थोड़ा भी देखती हो वह किन किन गुणोंसे विभूषित नहीं होता है, अर्थात् वह अनेक गुणोंसे सुशोभित हो जाता है ॥ ८ ॥ हे देवी ! जो सर्वज्ञ समस्त पदार्थोंको देखता और जानता है वह भी तुमसे रहित होकर नहीं जानतादेखता है । इसलिये तीनों लोकोंके अधिपति उस सर्वज्ञके भी ज्ञानका कारण तुम ही हो ॥९॥ हे देवी! चिर कालसे संसाररूप समुद्रमें परिभ्रमण करता हुआ प्राणी सैकडों महान् कष्टोंको सहकर पुरुषार्थ (धर्म, अर्थ, काम व मोक्ष ) की साधनभूत जिस मनुष्य पर्यायको प्राप्त करता है वह भी तेरे विना नष्ट हो जाती है ॥ १० ॥ हे माता ! यदि कदाचित् मनुष्य तेरे अनुग्रहके विना शास्त्रका अध्ययन भी करता है तो भी उसे तत्त्वका निश्चय नहीं हो पाता । तब ऐसी अवस्थामें भला उसे विवेकबुद्धि कहांसे हो सकती है ? अर्थात् नहीं हो सकती। हे देवी! तुझसे रहित प्राणीका जन्म निष्फल होता है ॥ ११ ॥ हे माता!
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy