SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ -396 :५९] ५. यतिभाषनाष्टकम् 394 ) भेदज्ञानविशेषसंहृतमनोवृत्तिः समाधिः परो जायेताद्भुतधामधन्यशमिना केषांचिदत्राचलः। वजे मूर्ध्नि पतत्यपि त्रिभुवने वह्निप्रदीप्ते ऽपि वा येषां नो विकृतिर्मनागपि भवेत् प्राणेषु नश्यत्स्वपि ॥ ७॥ 395) अन्तस्तत्त्वमुपाधिवर्जितमहंव्याहारवाच्यं परं ज्योतिर्यैः कलितं श्रितं च यतिमिस्ते सन्तु नः शान्तये । येषां तत्सदनं तदेव शयनं तत्संपदस्तत्सुखं । तद्वृत्तिस्तदपि प्रियं तदखिलश्रेष्ठार्थसंसाधकम् ॥ ८॥ 396) पापारिक्षयकारि दातृ नृपतिस्वर्गापवर्गश्रियं श्रीमत्पङ्कजनन्दिभिर्विरचितं चिञ्चेतनानन्दिभिः। भक्त्या यो यतिभावनाष्टकमिदं भव्यस्त्रिसंध्यं पठेत् किं किं सिध्यति वाञ्छितं न भुवने तस्यात्र पुण्यात्मनः॥९॥ अत्र संसारे केषांचित् मुनीनाम् । परः उत्कृष्टः। समाधिः। जायेत उत्पद्येत। किंलक्षणानां मुनीनाम् । अद्भुतधामधन्यशमिनाम् । किंलक्षणः समाधिः । भेदज्ञानविशेषसंहृतमनोवृत्तिः भेदज्ञानेन संकोचितमनोव्यापारः । पुनः अचलसमाधिः । येषां मुनीनाम् । मनाक् अपि । विकृतिः विकारः । न भवेत् । क सति । मूर्ध्नि वजे पतत्यपि सति । वा अथवा । त्रिभुवने वहिना प्रदीप्ते ज्वलिते सति अपि । पुनः केषु सत्सु । प्राणेषु नश्यत्सु अपि ॥॥ यः यतिभिः । परै ज्योतिः । कलितं ज्ञातम् । च पुनः । आश्रितम् । ते मुनयः । नः अस्माकम् । शान्तये कल्याणाय। सन्तु भवन्तु । किंलक्षणं ज्योतिः । अन्तस्तत्त्वम् अन्तःखरूपम् । पुनः किंलक्षणं ज्योतिः। उपाधिवर्जितम्। पुनः किंलक्षणं ज्योतिः। अहं-व्याहारवाच्यम् अहं-शब्दवाच्यम् । येषां मुनीनाम् । तदेव ज्योतिः। सदनं गृहम् । येषां मुनीनाम् । तदेव ज्योतिः । शयनं शय्या । येषां मुनीनाम् । तदेव ज्योतिः संपदः । येषां मुनीनाम् । तदेव ज्योतिः सुखम् । येषां मुनीनाम् । तदेव ज्योतिः वृत्तिः वर्तन व्यापारः । येषां मुनीनाम्। तदेव ज्योतिः । प्रिये वल्लभम् ज्योतिः । अखिलश्रेष्ठार्थसंसाधनं कारणम् ॥ ८ ॥ यः भव्यः । इदं यतिभावनाष्टकं भक्त्या कृत्वा त्रिसंध्यं पठेत् तस्य पुण्यात्मनः अत्र भुवने किं किं वाञ्छितं न सिध्यति। किंलक्षणं यतिभावनाष्टकम्। पापारिक्षयकारि पापशत्रुविनाशनम् । पुनः किंलक्षणं यतिभावनाष्टकम्। नृपति-स्वर्ग-अपवर्गश्रियं दातृ। पुनः किंलक्षणं यतिभावनाष्टकम् । श्रीमत्पङ्कजनन्दिभिः पद्मनन्दिभिः विरचितम्। किलक्षणैः पद्मनन्दिभिः' चिच्चेतनानन्दिभिः ज्ञानचैतन्य-उत्पन्न-आनन्दयुक्तः ॥ ९ ॥ इति यतिभावनाष्टकम् ॥५॥ शिरके ऊपर वज्रके गिरनेपर भी, अथवा तीनों लोकोंके अग्निसे प्रज्वलित हो जानेपर भी, अथवा प्राणोंके नाशको प्राप्त होते हुए भी जिनके चित्तमें थोड़ा-सा भी विकारभाव नहीं उत्पन्न होता है; ऐसे आश्चर्यजनक आत्मतेजको धारण करनेवाले किन्हीं विरले ही श्रेष्ठ मुनियोंके वह उत्कृष्ट निश्चल समाधि होती है जिसमें भेदज्ञानविशेषके द्वारा मनका व्यापार ( दुष्प्रवृत्ति ) रुक जाता है ॥ ७ ॥ जिन मुनियोंने बाह्य-आभ्यन्तर परिग्रहसे रहित और 'अहम्' शब्दके द्वारा कहे जानेवाले उत्कृष्ट ज्योतिस्वरूप अन्तस्तत्त्व अर्थात् अन्तरात्माके स्वरूपको जान लिया है तथा उसीका आश्रय भी किया है, एवं जिन मुनियोंका वही आत्मतत्त्व भवन है, वही शय्या है, वही सम्पत्ति है, वही सुख है, वही व्यापार है, वही प्यारा है, और वही समस्त श्रेष्ठ पदार्थों को सिद्ध करनेवाला है; वे मुनि हमें शान्तिके लिये होवें ॥ ८ ॥ आत्मचैतन्यमें आनन्दका अनुभव करनेवाले श्रीमान् पद्मनन्दी ( भव्य जीवोंको प्रफुल्लित करनेवाले गणधरादिकों या पद्मन्दी मुनि) के द्वारा रचा गया यह आठ श्लोकमय 'यतिभावना' प्रकरण पापरूप शत्रुको नष्ट करके राजलक्ष्मी, स्वर्गलक्ष्मी और मोक्षलक्ष्मीको भी देनेवाला है। जो भव्य जीव तीनों संध्याकालों (प्रातः, मध्याह्न और सायंकाल ) में भक्तिपूर्वक उस यतिभावनाष्टकको पढ़ता है उस पुण्यात्मा जीवको यहां लोकमें कौन कौन-सा अभीष्ट पदार्थ सिद्ध नहीं होता है ? अर्थात् उसे सभी अभीष्ट पदार्थ सिद्ध होते हैं ॥९॥ इस प्रकार यतिभावनाष्टक समाप्त हुआ ॥ ५ ॥ १क किंलक्षणा। २श समाधिः तेषां येषां। ३ श व्यापारवाच्यं, अप्रतौ तु श्रुटितं जातं पत्रमत्र । ४श प्रतौ 'विरचितम् । किंलक्षणैः पचनन्दिमिः' नास्ति । ५ श प्रत्योः ।। इति आदायव्रतं समाप्तम् ।।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy