SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ [ ५. यतिभावनाष्टकम् ] 388) आदाय व्रतमात्मतत्त्वममलं ज्ञात्वाथ गत्वा वने निःशेषामपि मोहकर्मजनितां' हित्वा विकल्पावलिम्' । ये तिष्ठन्ति मनोमरुच्चिदचलैकत्वप्रमोदं गता निष्कम्पा गिरिवज्जयन्ति मुनयस्ते सर्वसंगोज्झिताः ॥ १ ॥ 389 ) चेतोवृत्तिनिरोधनेन करणग्रामं विधायोद्वसं तत्संहृत्य गतागतं च मरुतो धैर्य समाश्रित्य च । पर्यङ्केन मया शिवाय विधिवच्छ्रन्यैकभूभृहरीमध्यस्थेन कदा चिदर्पितदृशा स्थातव्यमन्तर्मुखम् ॥ २ ॥ 390) धूल धूसरितं विमुक्तवसनं पर्यङ्कमुद्रागतं शान्तं निर्वचनं निमीलितदृशं तत्त्वोपलम्भे सति । उत्कीर्ण दृषदीव मां वनभुवि भ्रान्तो मृगाणां गणः पश्यत्युद्गत विस्मयो यदि तदा माढग्जनः पुण्यवान् ॥ ३ ॥ ते मुनयः जयन्ति । ये गिरिवत् पर्वतवत् । निष्कम्पाः कम्परहिताः तिष्ठन्ति । किंलक्षणा मुनयः । मनोमरुच्चिदचलैकत्वप्रमोदं गताः उच्छ्वासनिःश्वासेन सह चैतन्य-अचल पर्वत - एकत्वे प्रमोदं हर्षं गताः । पुनः किंलक्षणाः मुनयः । सर्वसंगेन परिप्रहेण उज्झिताः रहिताः । किं कृत्वा । व्रतम् आदाय गृहीत्वा । पुनः अमलम् आत्मतत्त्वं ज्ञात्वा । अथ अथवा । वनं गत्वा । पुनः निःशेषाम् अपि मोहकर्मजनिता विकल्पावलिम् । हित्वा परित्यज्य । निष्कम्पाः तिष्ठन्ति ॥ १ ॥ मया मुनिना । शिवाय मोक्षाय । विधिवत् विधियुक्तेन । पर्यङ्क - आसनेन । अन्तर्मुखं ज्ञानावलोकनं यथा स्यात्तथा । कदाचित् स्थातव्यम् । किंलक्षणेन मया । शून्या- एका भूभृद्दी - गुफा - मध्यस्थेन । पुनः किंलक्षणेन मया मुनिना । अर्पितदृशौ नासाप्रस्थापितनेत्रेण । किं कृत्वा । चेतोवृत्तिनिरोधनेन । करणग्रामम् इन्द्रियसमूहम् । उद्वखं विधाये उद्यानं कृत्वा । च पुनः । तस्य मरुतः पवनस्य । गतागतं गमनम् आगमनम् । संहृत्य संकोच्य । च पुनः । धैर्यं समाश्रित्य । कद कस्मिन् काले । मया अन्तरङ्गविचारं प्रति स्थातव्यम् ॥ २ ॥ मुनिः उदासीनं चिन्तयति । तदा काले । माहग्जनः मत्सदृशः जनः । पुण्यवान् । यदि चेत् । भुवि पृथिव्याम् । मृगाणां गणः मृगसमूहः । माम् उत्कीर्ण दृषदि इवै पश्यति माम् उत्केरितं पाषाणे' इव पश्यति । किंलक्षणः मृगसमूहः । भ्रान्तः । उद्गतविस्मयः उत्पन्न - आश्चर्यः । किंलक्षणं माम् । धूलीधूसरितम् । पुनः किंलक्षणं माम् । विमुक्तवसनं वस्त्ररहितम् । पुनः किंलक्षणं माम् । पर्यागतं पर्यङ्कासन स्थितम् । शान्तं क्षमायुक्तम् । पुनः किंलक्षणं माम् । निर्वचनं वचनरहितम् । पुनः किंलक्षणं माम् । जो मुनि व्रतको ग्रहण करके, निर्मल आत्मतत्त्वको जान करके, वनमें जा करके, तथा मोहनीय कर्मके उदयसे उत्पन्न होनेवाले सब ही विकल्पोंके समूहको छोड़ करके मनरूपी वायुसे विचलित न होनेवाले स्थिर चैतन्यमें एकत्वके आनन्दको प्राप्त होते हुए पर्वतके समान निश्चल रहते हैं वे सम्पूर्ण परिग्रहसे रहित मुनि जयवन्त होवें ॥ १ ॥ मुनि विचार करते हैं कि मैं मनके व्यापारको रोकता हुआ इन्द्रियसमूहको वीरान करके ( जीत करके), वायुके गमनागमनको संकुचित करके, धैर्यका अवलम्बन लेकर, तथा मोक्षप्राप्तिके निमित्त विधिपूर्वक पर्वतकी एक निर्जन गुफाके बीचमें पद्मासनसे स्थित होकर अपने स्वरूपपर ष्ट रखता हुआ कब चेतन आत्मामें लीन होकर स्थित होऊंगा ! ॥ २ ॥ तत्त्वज्ञानके प्राप्त हो जानेपर धूलिसे मलिन (अस्नात), वस्त्र से रहित, पद्मासनसे स्थित, शान्त, वचनरहित तथा आखोंको मींचे हुए; ऐसी अवस्थाको प्राप्त हुए मुझको यदि वनभूमिमें भ्रमको प्राप्त हुआ मृगोंका समूह आश्चर्यचकित होकर पत्थरमें उकेरी हुई मूर्ति १ ब जनितं । २ ब विकल्पावर्लीीं । ३ ब श मरुतौ । ४ क नासार्पितदृशा । ५ क विहाय । ६ क कदाचित् । ७ क दूषविव । ८ क पाषाण ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy