SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टारका नाम पुज्यत्वं युक्तिप्रबोधेट गुरुपरिचरणेनाध्यात्मविद्यानवद्या, स्फुरति विरतिमन्तर्बोधयन्ती जयन्ती ॥३॥ इति गाथार्थः ॥ अथ प्रविशति गुरुः, आ नेपथ्ये ! तम्हा दिगम्बराणं एए भट्टारगावि नो पुज्जा। तिलतुसमेत्तो जेसिं परिग्गहो णेव ते गुरुणो ॥१६॥ तस्माद् दिगम्बराणामेते भट्टारका अपि न पूज्याः । तिलतुषमात्रो येषां परिग्रहो नैव ते गुरुवः॥ १६॥ स्पष्टार्थमिदं, भगेन-ज्ञानेन तारका उपदेशदानात् जनानामिति भट्टारकाः, यदि यतीनामभावस्तर्हि कथमेते भट्टारकाः ?, मनुष्याभावे राजान इवेत्याशंकायां 'नो पूज्या' इति प्रतिवचनोद्देशः, नामतोऽमी भट्टारकाः, पर न पूज्यत्वेन, तत्र हेतुमाह|तिलतुषमात्रोऽपि येषां परिग्रहः ते न चैव गुरवः स्युरिति, न चोपकरणानां प्राग्दर्शितनीत्या लिङ्गत्वमिति वाच्यम् , तेषामुपकर| णत्वाभावात्, यथाजातरूपत्वस्यैव लिङ्गत्वात्, यदुक्तं प्रवचनसारे-"उपकरणं जिणमग्गे लिंग जहजायस्वमिदि भणियं । गुरुवयणापि य विणओ सुत्तज्झयणं च पण्णत्तं ।। १॥" यो हि नामाप्रतिषिद्धोऽस्मिन्नुपधिरपवादः स खलु निखिलोऽपि श्रामण्य| पर्यायसहकारिकारणत्वेनोपकारकत्वादुपकरणभूत एव, न पुनरन्यः, तस्य तु विशेषाः सर्वाहार्यवर्जितसहजरूपोपेक्षितयथाजातरूपत्वेन बहिरङ्गलिङ्गभूताः कायपुद्गला गुरुवचनपुद्गलाः सूत्रपुद्गला विनीतताभिप्रायप्रवर्तकचित्तपुद्गला इति, तेन सपरिग्रहा न गुरुत्वेन पूज्या इत्यभिप्रायः, अत्रापि नैकान्तेन उपकरणनिषेधः शङ्कयः, शिष्यभक्तावसथाहारादेः एतदग्रेतनगाथायामुत्सर्गापवादसादरस्याद्वादेनोपधेरुपदेशात्, यदुक्तं तत्रैव-'आहारे च विहारे देसं कालं समक्खमं उवधि । जाणिचा ते समणो वट्टइ जइ अप्पलेवी सो ॥१॥" इत्यादिप्रागुक्तं युक्तिभिरेकान्तप्रक्षेपाच्चेति गाथार्थः ।। अथ सामाजिकानां नटस्य बोधः RECRe ARROCEROSSESex - CE For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy