SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥१९४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतीयते तच्चापसिद्धांतेन दूषितं, अनंतद्रव्यत्वेन प्रागागमोक्त्या दृढीकरणात् इति चेत् न, समयपर्यायस्य मुख्यत्वेन द्रव्यसंज्ञाया अविरोधात, अत एव परमार्थकालं गौणत्वेन व्यवहारकालं मुख्यत्वेन "समयावली मुहुत्ता" इत्यागमः कथयति, लोकेऽपि मासो जातोऽस्येति मासजातः, न तु कालजात इति, न च सर्वथा ऐक्येऽपि अपसिद्धान्तोऽपि, श्रीउत्तराध्ययनवृत्ती - "कालमहदनागतद्धे" ति, तत्त्वार्थे "कालचे" त्यत्रैकवचनमपि तत एव संगच्छते, न चेत् 'जीवाश्च' 'रूपिणः पुद्गलाः' इति पञ्चमाध्याये इति सूत्रद्वयवचत्रापि बहुत्वमेवोपादिक्ष्यन् वाचकाः, किंच-निष्क्रियत्वादपि तदेकत्वं सिध्यत्येव, सोऽनन्तसमयः प्रवाहरूप इति विशेषणात् न चैवं देशप्रदेशसम्भवादस्तिकायत्वं कालस्येति वाच्यं, द्रव्यसमयानां परस्परासङ्गमात् सन्तत्यैवैकत्वात्, यदुक्तं कर्म्मग्रन्थवृत्तौ श्रीमद्देवेन्द्रसूरिचन्द्र:- "कालस्य वस्तुतः समयरूपस्य निर्विभागत्वात् न देशप्रदेशसम्भवः, अत एवात्रास्ति १ परमार्थकाले भूतादिव्यवहारे गौणो, व्यवहारकाले तु मुख्यः, किमत्र बहुनोक्तेन?, परमार्थकालेन कारणभूतेन षड् द्रव्याणि परावर्त कार्यरूपाणि तेषां द्रव्याणां परिच्छेदकाः समयादयः द्रव्यस्यैकः पर्याय एक: समयो द्वित्रिचतुः संखयेया संख्येयानंत पयार्यकलापा द्वित्रिचतु:| संख्येयासंख्येयानंतसमया इति भावनासंग्रहे, यथोक्तं प्रवचनसारे- 'समओ य अप्पदेसो' इति गाथाव्याख्यायां समयः कालद्रव्यं सः अप्रदेश: प्रदेशमात्रत्त्वात्, यद्यपि कालाणबोऽसङ्ख्याताः तथापि परस्परं पुद्गलपरमाणुवन्न तेषां मीलनशाकः ततोऽप्रदेशत्वं स कालाणुः प्रदेशमात्रस्य पुलपरमाणोः समयपर्यायं प्रकटयति । २ द्रव्यैकत्वं जीवादिष्वन्यतमद्रव्ये, क्षेत्रकत्वं परमाण्ववगाढप्रदेशः कालैकत्वं अभेदसमयः, भावैकत्वं मोक्षमार्ग इति भावनासंग्रहे । ३ सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाढाकाशप्रदेशव्यतिक्रमकालः परमनिरुद्धो निर्विभागः समय इति भावनासंग्रहे । For Private and Personal Use Only जल्प समाधाने कालद्रव्यं ॥१९४॥
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy