SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जल्पानां समाधान युक्तिप्रबोगदा वातकफात्मकरोगव्याप्तिरिति चेत् न, श्वासोच्छ्वासप्राणजन्यनाडीप्रयोगसम्पाद्यतैजसशरीरपरमाणुचलाचलतासमुज्जृम्भमाण द्रव्यमनःकमलपत्रोदीर्यमाणवायुसम्पूर्छनं तस्य मुखेन निर्गमे जृम्भा नासानिर्गमे छिक्का, सा त्वौदारिकदेहवतां निरामयत्वे सम्भव-| ॥१८७॥ त्येव, न च कश्चित्तत्र रोगः, यौगलिकानां नीरोगत्वेऽपि छिक्काजृम्भावत्, सप्तधातुविवर्जितस्य कथमेतदिति चेत्,न, तस्य प्रागग्निरासात् ॥ श्रीगौतमेन स्कन्दकस्य सत्कारः सोऽपि भगवति सार्वत्यनिश्चयश्रद्धया प्रश्नोत्तरावगमनायाभ्याजिगमिषोः सम्यक्ववतो व्यवहारोप्तो परिव्राजकवेषस्य कृतः, तत्र भूयसां सम्यक्त्वप्राप्तिनमल्यहेतुकतया यथालाभमागमव्यवहारिणः प्रवृत्तेने कश्चिद्वाधः, अन्यथा श्रीनेमिना बलभद्रेण पृष्टे सति द्वारिकाविनाशनिमित्तमूचे, श्रीवृषभेण भरतस्वमफलान्यादिष्टान, बानिनां नैमित्तिकवत् कथनमेतत्र संगच्छते, मुनीनां निमित्तकथननिषेधात्, परं परमज्ञानिनाममूढगूढलक्ष्यत्वात् सर्व सूपपादं, भवन्मते द्वयमप्येतत्प्रतिम् ।। __अथ अद्धास्वरूपम्- अद्धा-कालः स द्वेधा-पर्यायरूपो द्रव्यरूपश्च, आद्यस्तु पंचास्तिकायानां वर्तनारूपः परिणाम एव, न पुनर्वस्त्वन्तरं, यदुक्तमुत्तराध्ययनवृत्ती- 'जं वट्टणादिरूवो कालो दव्वाण चेव परिणामो।' इति, न च पर्यायस्यान्यद्रव्यवर्तिनः कालकथने द्रव्यलोपः स्यादिति वाच्यं?, कार्ये कारणोपचारात्, गोमट्टसारवृत्तावपि तथैव कथनात् , “कालमाश्रित्य जघन्यावधिज्ञानं १ यथोकं पंचास्तिकाये कालो परिणामभवो परिणामो दव्वकालसंभूओ । दोण्हं एस सहावो कालो खणभंगुरो णियतो ॥ १॥ कालोत्तिय | बवएसो सम्भावपरूवगो हवइ णिच्चो । उप्पण्णप्पद्धंसी अवरो दोहंतरहाई ॥२॥ एए कालागासे धम्माधम्मो य पुग्गला जीवा । लन्भंति व्वसहं कालस्स हु णथि कायव्वं ॥३॥ २ कार्ये वर्त्तनारूपे कारणस्य निमित्तस्य कालस्य व्यवहारात् । GAAABHUSAMACHAR CRECCASEARok ॥१८७॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy