________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशसहिता। एवं द्रविडभाष्य, न्यायतस, सिद्धित्रय, श्रीभाष्य, दीपसार, वेदार्थसंग्रह, भाष्यविवरण, संगीतमाला, पडर्थसंक्षेप, श्रुतप्रकाशिका, तत्त्वरत्नाकर, प्रजापरित्राण, प्रमेयसंग्रह, न्यायकुलिश, न्यायसुदर्शने, मानयाथात्म्यनिर्णय, न्यायसार, तत्त्वदीपन, तत्वनिर्णय, सर्वार्थसिद्धि, न्यायपरिशुदि, न्यायसिदाजन, परमतभङ्ग, तत्वत्रयचुलुक, तत्त्वत्रयनिरूपण, तत्वत्रयंप्रचण्डमारुत, घेदान्तविजय, पाराशर्यविजयादिपूर्वाचार्यप्रबन्धानुसारेण ज्ञातव्यान्सिंगृह्य बालबोधार्थ यतीन्द्रमतदीपिकाख्यशारीरकपरिभाषायामस्यां ते प्रतिपादिताः । अध्यात्मशास्त्राणां तत्त्वहितपुरुषार्थप्रतिपादकत्वात्तत्सारेऽस्मिन्नपि प्रकृतिजी. वेश्वरपरिच्छेदैस्तत्वस्य निरूपितत्वावुद्धिपरिच्छेद उपायस्य निरूपणानित्यविभूतिपरिच्छेद ईश्वरपरिच्छेदे च पुरुषार्थस्य निरूपणाच तत्त्वोपायपुरुषार्था निरुपिता इति निरवधम् । एकं तत्वमिति प्रतिपादयन्ति सूरयः । 'आत्माऽनात्मा' इति विभज्य द्वेधा निरूपयन्ति ऋषयः । श्रुत्यनुसाराभोक्तृभोग्य. नियन्तरूपतत्तत्रयमिति प्रतिपादयन्त्याचार्याः । हेयम्, तस्य निवर्तकम्, उपा. देयम्, तस्योपीय इति चतुर्धा विभज्यानुसंदधते केचिदाचार्याः । श्रीप्यम्, माप्ता, उपायः, फलं, विरोधीति पञ्चधा निरूपयन्त्यपरदेशिकाः । अर्थपश्चकमेव संबन्धेन साकं पोढा परिगणय्य वर्णयन्त्यन्ये गुरवः । एतेषां तद्विभाजकधर्ममादायानुसंधानमुपपद्यते । वस्तुतस्तु वेदान्तानां चिदचिद्विशिष्टाद्वैतमेकमेव ब्रह्मेति तात्पर्यम् । अत एव चिदचिद्विशिष्टं ब्रह्मकमेवेति मत्वा भगवा
हेतुत्वनिर्वाहकतयाऽभ्युपगतायाः शक्तेरेवात्रापि स्वीकर्तुमुचितत्वात् ।।
इति श्रीयतीन्द्रमतदीपिकाप्रकाशे दशमोऽवतारः ॥
इति श्रीमद्विद्वन्मुकुटरत्नभास्करशाख्यन्तेवासिसकलविद्यापारंगतरामशास्त्रिच्छात्रेण तच्चरणप्रसादलब्धज्ञानलवप्रोत्साहितेनाभ्यंकरोपाह्ववासुदेवशास्त्रिणा
विरचितो यतीन्द्रमतदीपिकाप्रकाशः समाप्तिमगमत् ।।
१ ख. प्रजाप। २ ग. °न, दर्शनया ध. °न, नामया' । ३ क. "रिसिद्धि। ४ ष. य। ५ क. ख. "संग्राह्य । ६ ग. ति द्विधा । ग. 'ति द्वेधा विभज्य नि। . घ. 'न्ति । श्रृं। ग. 'न्तृरूपं त । घ. 'न्तृत्वरू' । १ घ. "यन्त्वाचा । १० घ. पाय च। "ख. प्राप्यप्राप्ताप्राप्त्युपायः । घ. प्राप्यं प्राप्ताप्राप्त्युपायः । १२ क. घ. यन्ति । अर्थ । क. घ. यन्ति । एते।
For Private And Personal Use Only