________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः
[आचाराध्यायः
अषक यतः।
संभवः । भूमिदानादावपि समानत्वात् । स्मृत्यन्तरेऽपि धर्मदानश्रवणात्'देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयत्नेन नापुण्यं चोदित क्वचित् ॥' अपुण्यदाने तदेव वर्धते प्रतिग्रहीतुरपि लोभादिना प्रवृत्तस्य–'यः पापमैबलं ज्ञात्वा प्रतिगृह्णाति दुर्मतिः। गर्हिताचरणात्तस्य पापं तावत्समाश्रयेत् ॥ समद्विगुणसाहस्रमानन्त्यं च प्रदातृषु ॥' इति स्मरणात् । इहच सर्वत्र देशकालपात्र विशेषाद्देय विशेषादातृविशेषात्-'दाने फलं मया प्रोक्तं हिंसायां तद्वदेव हि' इति प्रतिगृहीतृवृत्तिविशेषाच्च दातृप्रतिग्रहीत्रोः फलतारतम्यं द्रष्टव्यम् ॥ २११ ॥ दानात्फलमुक्तमिदानी दानव्यतिरेकेणापि दानफलावाप्तिहेतूनाह
सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः।
तद्ददत्समवाप्नोति ब्रह्मलोकमविच्युतम् ॥ २१२ ॥ यस्मात्सर्वधर्ममयं ब्रह्म अवबोधकत्वेन तस्मात्तद्दानं सर्वदानेभ्योऽप्यधिकं अतस्तद्दददध्यापनादिद्वारेण ब्रह्मलोकमवाप्नोति । अविच्युतं विच्युतिर्यथा न भवति । आ भूतसंप्लवं ब्रह्मलोकेऽवतिष्ठत इत्यर्थः। अनच ब्रह्मदाने परस्वत्वापादनमात्रं दानं, स्वत्वनिवृत्तेः कर्तुमशक्यत्वात् ॥ २१२ ॥ दातुः फलमुक्तं । इदानीं दानव्यतिरेकेणापि दानफलावाप्तेर्हेतुमाह
प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तानाप्नोति पुष्कलान् ॥२१३।। यः पात्रभूतोऽपि प्राप्त प्रतिग्रहं सुवर्णादिकं नादत्ते न स्वीकरोति असौ यद्यप्राप्तं नोपादत्ते तत्तद्दानशीलानां ये लोकास्तान्समग्रानाप्नोति ॥ २१३ ॥ इदानीं सर्वप्रतिग्रहनिवृत्तिप्रसङ्गेऽपवादमाह
कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥ २१४॥ धानाः भ्रष्टयवाः । क्षितिर्मृत्तिका । शेषं प्रसिद्धम् । एतच्च कुशादिकं स्वयमुपानीतं न प्रत्याख्येयम् । चकारागृहादि । (मनुः ४।२५०)-'शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि । धाना मत्स्यान्पयो मांसं शाकं चैव न निर्णदेत् ॥' तथा-'एधोदकं मूलफलमन्नमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥' इति (४।२४७) मनुस्मरणात् ॥ २१४ ॥ किमिति न प्रत्याख्येयमित्याह -
अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः। . अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्विजः॥२१५॥
१ दानेन क. २ प्रबलं ज्ञात्वा ग. ३ भ्रष्टतन्दुलाः क. ग. ४.मध्वाज्याभय ग.
For Private And Personal Use Only