SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ५० Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः । [ आचाराध्यायः पितामहादिक्रमायातः । अर्धसीरी हलपर्यांयसीरोपलक्षित कृषिफलभागग्राही । नापितो गृहव्यापार कारयिता नापितश्च । यश्च वामनः कायकर्मभिरात्मानं निवेदयति तवाहमिति । एते दासादयः शूद्राणां मध्ये भोज्यान्नाः । चकारात्कुम्भकारश्च । - ' गोपनापितकुम्भकारकुलमित्रार्धिकनिवेदितात्मानो भोज्यान्नाः' इति वचनात् ॥ १६६ ॥ इति स्नातकधर्मप्रकरणम् । अथ भक्ष्याभक्ष्यप्रकरणम् ७ न स्वाध्यायविरोध्यर्धमित्यत आरभ्य ब्राह्मणस्य स्नातकव्रतान्यभिधायेदानीं द्विजातिधर्मानाह अनर्चितं वृथामांसं केशकीटसमन्वितम् । शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ १६७ ॥ उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् । गोघातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ १६८ ॥ अनचितं अचय यदवज्ञया दीयते । वृथामांसं वक्ष्यमाणप्राणात्ययादिव्यतिरेकेण, देवाद्यर्धनावशिष्टं च यन्न भवति आत्मार्थमेव यत्साधितम् । केशकीटादिभिश्च समन्वितं संयुक्तम् । यत्स्वयमनम्लं केवलं कालपरिवासेन द्रव्यान्तरसंसर्गकालपरिवासाभ्यां वाम्लीभवति तच्छ्रुक्तदध्यादिव्यतिरेकेण । - 'न पापीय सोऽश्नमश्नीयान्न द्विःपर्क न शुक्तं न पर्युषितं अन्यत्र रागखाण्डवचुक्रदधिगुडगोधूमयवपिष्टविकारेभ्यः' इति शङ्खस्मरणात् । पर्युषितं राज्यन्तरितम् । उच्छिष्टं भुक्तोज्झितम् । श्वस्पृष्टं शुना स्पृष्टम् । पतितेक्षितं पतितादिभिरीक्षितम् । उदक्या रजस्वला तथा स्पृष्टम् । उदक्याग्रहणं चण्डालाद्युपलक्षणार्थम् । - - 'अमेध्यपतितचण्डालपुल्क सरजस्वलाकुन खि कुष्ठिसंस्पृष्टान्नं वर्जयेत्' इति शङ्खस्मरणात् । को भुङ्क्त इति यदाघुष्य दीयते तत्संघुष्टान्नम् । अन्यसंबन्ध्यन्यव्यपदेशेन यद्दीयते तत्पर्यायान्नम्, यथा-- ' ब्राह्मणानं ददच्छूद्रः शूद्राचं ब्राह्मणो ददत् । उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥' इति । पर्याचान्तमिति पाठे परिगतमाचान्तं गण्डूषग्रहणं यस्मिन् तत्पर्याचान्तं तन भोक्तव्यम् । एतदुक्तं भवति – गण्डूषग्रहणादूर्ध्व आचमनात्प्राक् न भोक्तव्यमिति । पार्श्वाचान्तमिति पाटे एकस्यां पङ्क्तौ पार्श्वस्थे आचान्ते न भोक्तव्यं भस्मोदकादिविच्छेदेन विना । वर्जयेदिति प्रत्येकं संबध्यते । तथा गोघ्रातं गवा आघातम् । शकुनोच्छिष्टं शकुनेन काकादिना भुक्तमास्वादितम् । पदा स्पृष्टं बुद्धिपूर्व पादेन स्पृष्टं वर्जयेत् ॥ १६७ ॥ १६८ ॥ १ कर्म स्थायी क. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy