SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ याज्ञवल्क्यस्मृतिः। [आचाराध्यायः प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ।। दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥ १४१ ॥ प्रतिग्रहे साध्ये सून्यादयः पञ्च पूर्वस्मात्पूर्वस्मात्परः परो दशगुणं दुष्टः । सूना प्राणिहिंसा सास्यास्तीति सूनी प्राणिहिंसापरः । चक्री तैलिकः । ध्वजी सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपोऽनन्तरोक्तः ॥ १४१ ॥ अथाध्ययनधर्मानाह अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा । हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ १४२॥ - अधीयन्त इत्यध्याया वेदास्तेषामुपाकर्म उपक्रममोषधीनां प्रादुर्भावे सति श्रावणमासस्य पौर्णमास्यां, श्रवणनक्षत्रयुते वा दिने, हस्तेन युतायां पञ्चम्यां वा स्वगृह्योक्तविधिना कुर्यात् । यदा तु श्रावणे मासि ओषधयो न प्रादुर्भवन्ति तदा भाद्रपदे मासि श्रवणनक्षत्रे कुर्यात् । तत ऊर्ध्वं सार्धचतुरो मासान्वेदानधीयीत । तथाच मनुः (१९५)-'श्रावण्यां प्रौष्टपद्यां वाप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् ॥' इति ॥ १४२ ॥ उत्सर्जनकाल: पौषमासस्य रोहिण्यामष्टकायामथापि वा। . जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवदहिः॥ १४३ ॥ पौषमा सय रोहिण्यामष्टकायां वा ग्रामावहिर्जलसमीपे छन्दसां वेदानां स्वगृह्योक्तविनोत्सर्ग कुर्यात् । यदा पुनर्भाद्रपदे मासि उपाकर्म तदा माघशु. लप्रथमदिवसे उत्सर्ग कुर्यात् । यथोक्तं मनुना (१९६)-'पौषे तु छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमेऽहनि ॥' इति । तदनन्तरं पक्षिणीमहोरानं वा विरम्य शुक्लपक्षेषु वेदान् कृष्णपक्षेष्वङ्गान्यधीयीत । यथाह मनुः (४१९७) 'यथाशास्त्रं तु कृत्वैवमुत्सर्ग छन्दसा बहिः । विरमेत्पक्षिणीं रात्रिं यद्वाप्येकमहर्निशम् ॥ अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥' इति ॥ १४३ ॥ अनध्यायानाह त्र्यहं प्रेतेष्वनध्यायः शिष्यविंग्गुरुबन्धुषु । उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ १४४ ॥ उक्तेन मार्गेणाधीयानस्य द्विजस्य शिष्यविंग्गुरुबन्धुषु प्रेतेषु मृतेषु व्यहमनध्यायस्त्रीनहोरात्रानध्ययनं वर्जयेत् । उपाकर्मणि उत्सर्गाख्ये च कर्मणि कृते यहमनध्यायः । उत्सर्गे तु मनूक्तपक्षिण्यहोरात्राभ्यां सहास्य विकल्पः । स्वशाखाश्रोत्रिये स्वशाखाध्यायिनि प्रेते च व्यहमनध्यायः ॥ १४४॥ १ प्रतिग्रहेषु साध्येषु ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy