SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्नातकधर्मप्रकरणम् ६ ] मिताक्षरासहिता । थ्याविनीतश्च बकवृत्तिरुदाहृतः ॥' इति । प्रतिषिद्धसेविनो विकर्मस्थाः। बिडालो मार्जारस्तस्य व्रतं स्वभावो यस्यासौ बैडालनतिकः । तस्य लक्षणमाह मनुः (१९९५)-'धर्मध्वजी सदा लुब्धश्छामिको लोकदम्भकः । बैडालनतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥' इति । शठः सर्वत्र वक्रः । एतैः संसर्गनिषेधादेव स्वयमेवंभूतो न भवेदिति गम्यते ॥ १३० ॥ शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः। न भायर्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥ १३१ ॥ किंच । शुक्ले धौते अम्बरे वाससी धरतीति शुक्लाम्बरधरः । केशाश्च ३मश्रूणि च नखाश्च केशश्मश्रुनखं नीचं निकृत्तं केशश्मश्रुनखं यस्यासौ तथोक्तः । शुचिरन्तर्बहिश्च स्नानानुलेपनधूपनगादिभिः सुगन्धी च भवेत् । यथाह गौ. तम:--'स्मातको नित्यं शुचिः सुगन्धिः स्नानशीलः' इति । सुगन्धित्व विधानादेव निर्गन्धमाल्यस्य निषेधः । तथाच गोभिल:-'नागन्धां सज धारयेदन्यत्र हिरण्यरवस्त्रजः' इति । सदा स्नातक एवंभूतो भवेत् । एतच्च सति संभवे ।--'न जीर्णमलवद्वासा भवेच्च विभवे सति' इति स्मरणात् । नच भार्यादर्शने तस्यां पुरतोऽवस्थितायामश्नीयात् अवीर्यवदपत्योत्पत्तिभयात् । तथाच श्रतिः-'जायाया अन्ते नाश्नीयादवीर्यवदपत्यं भवति' इति । अतस्तया सह भोजनं दूरादेव निरस्तम् । न चैकवासाः न संस्थितः उत्थितः अश्नीयादिति संबध्यते ॥ १३१ ॥ न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् । . नाहितं नानृतं चैव न स्तेनः स्थान वार्धषी ॥ १३२ ॥ किंच । कदाचिदपि संशयं प्राणविपत्तिसंशयावह कर्म न प्रपद्येत न कुर्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रमणादि । अकस्मानिष्कारणं कंचिदपि पुरुषं स्त्रियं वा अप्रियमुद्वेगकरं वाक्यं न वदेत् । न चाहितं नानृतं वा प्रियमपि । चकारादश्लीलमसभ्यं बीभत्सकरं चाकस्मान्न वदेदिति संबध्यते । एतच्च परिहासादिव्यतिरेकेण । --'गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना' इति स्मरणात् । नच स्तेनः अन्यदीयस्यादत्तस्य ग्रहीता न स्यात् । न वाधुषी स्यात् । प्रतिषिद्धवृद्ध्युपजीवी वाधुषी ॥ १३२ ॥ दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः। . कुर्यात्प्रदक्षिणं देवमृगोविप्रवनस्पतीन् ॥ १३३ ॥ किंच दाक्षायणं सुवर्ण सदस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं तदसास्तीति ब्रह्मसूत्री । वैणवयष्टिमान् । कमण्डलुमान् । स्यादिति सर्वत्र संबन्धनीयम् । अत्रच ब्रह्मचारिप्रकरणोक्तस्थापि यज्ञोपवीतस्य पुनर्वचनं द्वितीयप्रा१ परुषमप्रियं ख. २ तद्वान्, तद्धारणात् क. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy