SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृहस्थधर्मप्रकरणम् ५] मिताक्षसद्धिता क्षत्रियेण वैश्येन चोत्पादिताः उत्तरे अनुलोमजाः । एवमन्यत्राप्यूहनीयम् । एतदधरोत्तरं पूर्ववदसत्सदिति बोद्धव्यम् ॥ ९६ ॥ इति वर्णजातिविवेकप्रकरणम् । अथ गृहस्थधर्मप्रकरणम् ५ श्रौतस्मार्तानि कर्माणि अग्निसाध्यानि दर्शयिष्यन् कस्मिन्नग्नौ किं कर्तव्यमित्याह. कर्म स्मात विवाहानौ कुर्वीत प्रत्यहं गृही। दायकालाहते वापि श्रौतं वैतानिकाग्निषु ॥ ९७॥ स्मृत्युक्तं वैश्वदेवादिकं कर्म लौकिकं च यत्प्रतिदिनं पाकलक्षणं तदपि गृहस्थो विवाहानौ विवाहसंस्कृते कुर्वीत । दायकाले विभागकाल आहृते वा 'वैश्यकुलादग्निमानीय' इत्यादिनोक्तसंस्कारसंस्कृते । अपिशब्दात्प्रेते वा गृहपतावाहृते संस्कृते एव । ततश्च कालत्रयातिक्रमे प्रायश्चित्तीयते । श्रुत्युक्तमग्निहोत्रादिकं कर्म वैतानिकाग्निषु आहवनीयादिषु कुर्वीत ॥ ९७ ॥ . गृहस्थधर्मानाह शरीरचिन्तां निवर्त्य कृतशौचविधिर्द्विजः। प्रातःसंध्यामुपासीत दन्तधावनपूर्वकम् ॥ ९८॥ शरीरचिन्तामावश्यकादिकां 'दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः' इत्यायुक्तविधिना निवर्त्य 'गन्धलेपक्षयकरम्' इत्यादिनोक्तेन विधिना कृतशौचविधिर्द्विजः दन्तधावनपूर्वकं प्रातःसंध्यामुपासीत । दन्तधावनविधिश्च-'कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलसंमितम् । कनिष्ठिकाग्रवत्स्थूलं पर्वार्धकृतकूर्चकम् ॥ दन्तधावनमुद्दिष्टं जिह्वोल्लेखनिका तथा ॥' इति । अत्र वृक्षोत्थमित्यनेन तृणलोष्टाङ्गुल्यादि निषेधः । पलाशाश्वत्थादिनिषेधश्च स्मृत्यन्तरोक्तो द्रष्टव्यः। दन्तधावनमन्त्रश्च-'आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥' इति । ब्रह्मचारिप्रकरणोक्तस्यापि संध्यावन्दनस्य पुनर्वचनं दन्तधावनपूर्वकत्वप्रतिपादनार्थम् , दन्तधावननृत्यगीतादि ब्रह्मचारी वर्जयेदिति तनिषेधात् ॥ ९८ ॥ हुखाग्नीन्सूर्यदैवत्यान्जपेन्मन्त्रान्समाहितः। वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥ ९९ ॥ प्रातःसंध्यावन्दनानन्तरं अग्नीनाहवनीयादीन् यथोक्तेन विधिना हुत्वा और १ अहृत आहितः, २ तिक्रमेण प्राय. ग. ३ आवश्यकां दिवा. क. ४ नो देहि ग. या०६ For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy