SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णजातिविवेकप्र० ४] मिताक्षरासहिता । लोके कीर्ति प्रख्याति परलोके चोत्तमां गतिं प्राप्नोति । अयंच सकल एव स्त्रीधर्मों विवाहादूर्ध्व वेदितव्यः । 'प्रागुपनयनारकामचारकामवादकामभक्षाः' इति स्मरणात् । 'वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः' इति च ॥ ८७ ॥ - अनेकभार्य प्रत्याह सत्यामन्यां सवर्णायां धर्मकार्य न कारयेत् । सवर्णासु विधौ धर्ये ज्येष्ठया न विनेतरा ॥ ८८ ॥ सवर्णायां सत्यामन्यामसवर्णा नैव धर्मकार्य कारयेत् । सवर्णास्वपि बह्वीषु भर्षे विधौ धर्मानुष्ठाने ज्येष्ठया विना ज्येष्ठां मुक्त्वा इतरा मध्यमा कनिष्ठा वा बनियोक्तव्या ॥ ८॥ प्रमीतपतिकाया विधिमुक्त्वा इदानीं प्रमीतभार्य प्रत्याह दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । - आहरेद्विधिवदाराननींश्चैवाविलम्बयन् ॥ ८९॥ पूर्वोक्तवृत्तवतीं आचारवती विनां स्त्रियमग्निहोत्रेण श्रौतेनाग्निना तदभावे मार्तेन दाहयित्वा पतिः भर्ता अनुत्पादितपुत्रोऽनिष्टयज्ञो वा आश्रमान्तरेष्वनधिकृतो वा रूयन्तराभावे पुनरान् अग्नीश्च विधिवदाहरेत् । अविलम्बयन शीघ्रमेव ।-'अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः' इति दक्षमरणात् । एतत्वाधानेन सहाधिकृताया एव नान्यस्या । यत्त-'द्वितीयां चैव यो भायाँ दहेछैतानिकाग्निभिः । जीवन्त्यां प्रथमायां हि सुरापानसमं हि तत् ॥' इति । तथा-'मृतायां तु द्वितीयायां योऽग्निहोत्रं समुरसृजेत् । ब्रह्मघ्नं तं विजानीयाचश्व कामात्समुत्सृजेत् ॥' इत्येवमादि, तदाधानेन सहानधिकृताया अनिदाने वेदितव्यम् ॥ ८९॥ इति विवाहप्रकरणम् । . अथ वर्णजातिविवेकप्रकरणम् ४ ब्राह्मणस्य चतस्रो भार्या भवन्ति क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रस्यैकेयुक्रवा, तासु च पुत्रा उत्पादयितव्या इत्युक्तम् । इदानी कस्यां कस्मात् कः पुत्रो भवतीति विवेक्तुमाह सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥९०॥ - सवर्णेभ्यो ब्राह्मणादिभ्यः सवर्णासु ब्राह्मण्यादिषु सजातयो मातृपितृसमानजातीयाः पुत्रा भवन्ति । 'विनास्वेष विधिः स्मृतः' इति सर्वशेषत्वेनोपसंहारा १ विधवायाः. २ विधुरं प्रति. ३ मृतां. ४ विवेकमाह. ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy