SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः पदि प्रक्रम्य पूर्वोक्तकमेणानुष्ठीयते तदा पिपीलिकावन्मध्ये हसिष्ठं भवतीति पिपीलिकमध्यमिति कथ्यते । तथाहि । पूर्वोक्तक्रमेण कृष्णप्रतिपदि चतु. र्दश ग्रासान् भुक्त्वा एकैकग्रासापचयेन चतुर्दशी यावद्भुञ्जीत । ततश्चतुर्दश्यामेकं प्रासं ग्रसित्वामावास्यायामुपोष्य शुक्लप्रतिपद्येकमेव ग्रासं प्राश्नीयात् । तत एकैकोपचयभोजनेन पक्षशेषे निर्वय॑माने पौर्णमास्यां पञ्चदश प्रासाः संपद्यन्त इति युक्तैव पिपीलिकामध्यता । तथाच वसिष्ठः-मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश । प्रासापचयभोजी सन्पक्षशेषं समापयेत् ॥ तथैव शुक्लपक्षादौ ग्रासं भुञ्जीत चापरम् । ग्रासोपचयभोजी सन्पक्षशेष समापयेत् ॥' इति ॥ यदा त्वेकस्मिन्पक्षे तिथिवृद्धिहासवशात् पोडशदिनानि भवन्ति चतुर्दश वा तदा ग्रासानामपि वृद्धि हासौ वेदितव्यौ । तिथिवृद्ध्या पिण्डांश्चरेदिति नियमात् । गौतमेनात्र विशेषो दर्शितः-'अथातश्चान्द्रायणं तस्योक्तो विधिः कृच्छ्रे वपनं च व्रतं चरेत् श्वोभूतां पौर्णमासीमुपवसेत् आप्यायस्व संतेपयांसि नवो. नव इति चैताभिस्तर्पणमाज्यहोमो हविपश्चाशुमन्त्रणमुपस्थानं च चन्द्रमसः यद्देवादेवहेडनमिति चतसृभिराज्यं जुहुयाद्देवकृतस्येति चान्ते समिद्भिस्त्रिभिः भूः भुवः स्वः महः जनः तपः सत्यं यशः श्रीः उ इट ओजः तेजः पुरुषः धर्मः शिवः इत्येतै सानुमन्त्रणं प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वानेतैरेव ग्रासान्भुञ्जीत । तद्रासप्रमाणमास्याविकारेण चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरं प्रशस्यानि । पौर्णमास्यां पञ्चदश प्रासान् भुक्त्वा एकैकापचयेनापरपक्षमश्नीयात् । अमावास्यायामुपोप्यैकैकोपचयेन पूर्वपक्षं विपरीतमेकेषामेव चान्द्रायणो मासः' इति । अत्र ग्रासप्रमाणमास्याविकारेणेति यदुक्तं तद्बालाभिप्रायम् । तेषां शिख्यण्डपरिमितिपञ्चदशग्रासभोजनाशक्तेः । क्षीरादिहविष्षु शिख्यण्डपरिमितत्वं तु पर्णपुटकादिना संपादनीयम् । तथा कुकुटाण्डामलकादीनि तु ग्रासपरिमाणानि स्मृत्यन्तरोक्तानि शक्तिविषयाणि शिख्यण्डपरिमाणाल्लघुत्वात्तेषाम् । यत्पुनरत्र श्वोभूतां पौर्णमासीमुपवसेदित्यत्र चतुर्दश्यामुपवासमभिधाय पौर्णमास्यां पञ्चदशनासान्भुक्त्वेत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्रायणस्योक्तं तत्पक्षान्तरप्रदर्शनार्थ न सार्वत्रिकम् । योगीश्वरवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शितत्वात् । यद्येतत्सार्वत्रिकं स्या. त्तदा नैरन्तर्येण संवत्सरे चान्द्रायणानुष्ठानानुपपत्तिः स्यात् । चन्द्रगत्यनुवर्तनानुपपत्तिश्च ॥ ३२३ ॥ चान्द्रायणान्तरमाह यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ॥ ३२४ ॥ पिण्डानां चत्वारिंशदधिकं शतद्वयं मासेन भुञ्जीत । यथाकथंचित्प्रतिदिनं मध्याह्नेऽष्टौ ग्रासान्, अथवा नक्तंदिनयोश्चतुरश्चतुरो वा, अथवैकस्मिंश्चतुरोऽपरमिन्द्वादश वा तथैकरात्रमुपोष्यापरस्मिन्पोडश वेत्यादिप्रकाराणामन्यतमेन For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy