SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ४८२ Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः श्रीयादथापरं त्र्यहं नक्तं भुञ्जीताथापरं त्र्यहं न कंचन याचेताथापरं त्र्यहमुपवसंस्तिष्ठेदहनि रात्रावासीत क्षिप्रकामः सत्यं वदेदनायैः सह न भाषेत रौरव - योधां जपे नित्यं प्रयुञ्जीतानुसवनमुदकोपस्पर्शनमापोहिष्टेति तिसृभिः पवित्रवतीभिर्मार्जीत हिरण्यवर्णाः शुचयः पावका इत्यष्टाभिरथोदकतर्पणम् । नमोहमाय मोहमाय महमाय धन्वने तापसाय पुनर्वसवे नमः मौञ्ज्याय औम्यय वसुविन्दाय सर्वविदाय नमः । पाराय सुपाराय महापाराय पारदाय परपाराय पारयिष्णवे नमः । रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायाघनाशनायोप्राय वज्रिणे घृणिने कपर्दिने नमः सूर्यायादित्याय नमः । नीलग्रीवाय शितिकण्ठाय नमः । कृष्णाय पिङ्गलाय नमः । ज्येष्टाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमः । सत्याय पावकाय पावकवर्णायैकवर्णाय कामाय कामरूपिणे नमः । दीप्ताय दीप्तरूपिणे नमः | तीक्ष्णाय तीक्ष्णरूपिणे नमः | सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषाय उत्तमपुरुषाय ब्रह्मचारिणे नमः । चन्द्रललाटाय कृत्तिवाससे नम इति । एतदेवादित्योपस्थानमेता एवाज्याहुतयो द्वादशरात्रस्यान्ते चरुं श्रपयित्वा एताभ्यो देवताभ्यो जुहुयादनये स्वाहा सोमाय स्वाहाझीपोमाभ्यामिन्द्राग्निभ्यामिन्द्राय विश्वेभ्योदेवेभ्यो ब्रह्मणे प्रजापतये नये स्विष्टकृते इति अन्ते ब्राह्मणभोजनम्' इति । तत्र तिष्ठेदहनि रात्रावासीत क्षिप्रकाम इत्यस्यार्थः । यस्तु महतोऽप्येनसः क्षिप्रमेकेनैव कृच्छ्रेण क्षिप्रं मुच्येयमित्येवं कामयते असावहनि कर्माविरुद्धेषु कालेषु तिटेद्रात्रावासीत । एवं रौरवयोधाख्यसामजपो नमोहमायेत्यादिभिस्तर्पणमादित्योपस्थानादिकं चरुश्रपणादिकं च योगीश्वराद्यनुक्तं क्षिप्रकामः कुर्वीत । अतश्व योगीश्वरायुक्तप्राजापत्यद्वयस्थाने गौतमीयमनेकेतिकर्तव्यतासहितं द्रष्टव्यम् । एवमन्यान्यपि स्मृत्यन्तरोक्तानि विशेषेणान्वेषणीयानि ॥ अतिकृच्छ्रमाह अयमेवातिकृच्छ्रः स्यात्पाणिपूरान्न भोजनः ॥ ३१९ ॥ एतद्धर्मक एव एकभक्तादिप्राजापत्यधर्मयुक्तोऽतिकृच्छ्रः स्यात् । इयांस्तु विशेषः । आये त्र्यहत्रये पाणिपूरणमात्रमन्नं भुञ्जीत न पुनर्द्वाविंशत्यादिप्रासान् । अत्र च प्राप्तभोजनानुवादेन पाणिपूरान्नविधानादन्त्यत्र्यहेऽति देशप्राप्त उपवासोऽप्रतिपक्ष एव । अत्रापि पादशो व्यवस्था पूर्ववदेव द्रष्टव्या । यत्तु मनुनोक्तम् ( ११।२१३ ) - 'एकैकं प्रासमश्नीयात्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसे दन्त्यमतिकृच्छ्रं चरन् द्विजः ॥' इति तत्पाणिपूरा अपरिमितादल्पत्वाच्छक्तविषयम् ॥३१९॥ कृच्छ्रातिकृच्छ्रमाह कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् । एकविंशतिरात्रं पयसा वर्तनं कृच्छ्रातिकृच्छ्राख्यं व्रतं विज्ञेयम् । गौतमेन तु द्वादशरात्रमुदकेन वर्तनं कृच्छ्रातिकृच्छ्र उक्तः 'अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः' इति । अतश्च शक्त्यपेक्षयाऽनयोर्व्यवस्था || १ विशेषेणान्तराण्यन्वेषणीयानि ङ. २ परिमितत्वात् ख ३ तिकृच्छ्रमित्युक्तं. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy