SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७० याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः स्वयं तु ब्राह्मणा ब्रूयुरल्पदोषेषु निष्कृतिम् । राजा च ब्राह्मणाश्चैव महत्सु च परीक्षितम् ॥' इति तेया च पर्षदा अवश्यं व्रतमुपदेष्टव्यम् —' भार्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥' इत्यङ्गिरः स्मरणात् । तया पर्षदा ज्ञास्यैव व्रतमुपदेष्टव्यम् - 'अज्ञात्वा धर्मशास्त्राणि प्रायवित्तं ददाति यः । प्रायश्चित्ती भवेत्पूतः किल्बिषं पर्षदं व्रजेत् ॥' इति वसिष्ठस्मरणात् ॥ क्षत्रियादीनां तु कृतैनसां धर्मोपदेशे विशेषोऽङ्गिरसा दर्शितः — 'न्यायतो ब्राह्मणः क्षिप्रं क्षत्रियादेः कृतैनसः । अन्तरा ब्राह्मणं कृत्वा व्रतं सर्वं समादिशेत् । तथा शूद्रं समासाद्य सदा धर्मपुरःसरम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥' इति । तत्र च यागाद्यनुष्ठानशीलानां जपादिकं वाच्यम् । इतरेषां तु तपः । 'कर्मनिष्ठास्तपोनिष्ठाः कदाचित्पापमागताः । जपहोमादिकं तेभ्यो विशेषेण प्रदीयते ॥ ये नामधारका विप्रा मूर्खा धनविवर्जिताः । कृच्छ्रचान्द्रायणादीनि तेभ्यो दद्याद्विशेषतः ॥' इति प्रकाशप्रायश्चित्तप्रकरणम् । अथ रहस्यप्रायश्चित्तम् । 'व्याख्याय ख्यातदुरितशातनीं व्रतसंततिम् । रहः कृताघसंदोहहारिणीं व्याहरन्मुनिः ॥' तत्र प्रथमं सकल रहस्यव्रतसाधारणं धर्ममाह - अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् ॥ ३०० ॥ कर्तृव्यतिरिक्तैरनभिख्यातो दोषो यस्यासौ रहस्यमप्रकाशं प्रायश्चित्तमनुतिष्ठेत् । अतः स्त्रीसंभोगादौ तस्या अपि कारकत्वात् तदितरैरविज्ञातदोषस्य रहस्यव्रतमिति मन्तव्यम् । अत्र यदि कर्ता स्वयं धर्मशास्त्रकुशलस्तदा परस्मिन्नविभाव्य स्वनिमित्तोचितं प्रायश्चित्तमनुतिष्ठेत् । यस्तु स्वयमनभिज्ञोऽसौ केनचिद्रहो ब्रह्महत्यादिकं कृतं तत्र किं रहस्यप्रायश्चित्तमित्यन्यव्याजेनावगम्य रहोव्रतमनुतिष्ठेत् । अतएव स्त्रीशूद्रयोरप्यमुनैव मार्गेण रहस्यव्रतज्ञानसिद्धेरधिकारसिद्धिः । नच वाच्यं रहस्यव्रतानां जपादिप्रधानत्वादविद्ययोश्व स्त्रीशूद्रयोस्तदनुपपत्तेरनधिकार इति । यतोऽनैकान्ततो रहस्यव्रतानां जपादिप्रधानत्वम् । दानादेरप्युपदेशात् गौतमोक्तप्राणायामादेरपि संभवाच्च । इतरेषामपि मन्त्रदैवतर्षिच्छन्दःपरिज्ञानमात्रमेवाधिकारोपयोगि न त्वन्यविषयम् । नहि तडागनिर्माणादौ ज्योतिष्टोमादिविषयिणी प्रतिपत्तिरुपयुज्यते । देवतादिपरिज्ञानं त्ववश्यमपेक्षणीयम् । - ' अविदित्वा ऋषिं छन्दो दैवतं योगमेव च । योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥' इति व्यासस्मरणात् ॥ अत्राप्याहारविशेषानुक्तौ पयःप्रभृतयः, कालविशेषानुक्त्तौ संवत्सरादयः, देशविशेषानुक्तौ शिलोच्चयादयो गौतमाद्यभिहिताः प्रकाशप्रायश्चित्तवदन्वेषणीयाः ॥ ३०० ॥ I १ तथाच पर्षदा ख. २ तथाच ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy