SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५० याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः मनूक्तान्यप्यपाड़ेयप्रायश्चित्तानि 'षष्ठान्नकालता मासम्' इत्यादीन्यपि जात्याद्यपेक्षया योज्यानि । तदुक्तापायमध्येऽपि कितवादिव्यसनिनां पठितत्वात् । आत्मविक्रये शुद्धसेवायां च सामान्यप्रायश्चित्तानि प्राग्वदेव योज्यानि ॥ यत्तु बौधायनेनोक्तम्-'समुद्रयानं ब्राह्मणस्य न्यासापहरणं सर्वपण्यैर्व्यवहरणं भूम्यनृतं शूद्रसेवा यश्च शूदायामभिजायते तेन यदपत्यं च भवति तेषां तु निदेशः 'चतुर्थकालं मितभोजिनः स्युरपोऽभ्युपेयुः सवनानुकल्पम् । स्थानासनाभ्यां विहरन्त एतैस्त्रिभिर्वस्तदपहरन्ति पापम् ॥' इति तद्बहुकालसेवाविषयम् ॥ हीनजातिभिः सख्ये तूपपातकसामान्यप्रायश्चित्तान्येव ॥ यत्तु प्रचेतसोक्तम्'मित्रभेदनकरणादहोरात्रमनश्नन् हुत्वा पयः पिबेत्' इति, तदहीनसख्यभेदनविषयम् ॥ हीनयोनिनिषेवणेऽप्युपपातकसामान्यप्रायश्चित्तानि योज्यानि ॥ यत्तु शातातपेनोक्तम्-'ब्राह्मणो राजकन्यापूर्वी कृच्छ्रे द्वादशरात्रं चरित्वा निविशेत्तां चैवोपयच्छेद्वैश्यापूर्वी तु ततकृच्छ्रे शूद्रापूर्वी तु कृच्छ्रातिकृच्छं राजन्यश्चेद्वैश्यापूर्वी कृच्छं द्वादशरात्रं चरित्वा निविशेत्तां चैवोपयच्छेच्छूद्रापूर्वी त्वतिकृच्छ्रे वैश्यश्वेच्छूदापूर्वी कृच्छ्रे द्वादशरानं चरित्वा तां चोपयच्छेत्' इति, तत्र निविशेतां चोपयच्छेदिति कृच्छ्रानुष्ठानोत्तरकालं सवर्णापरिणयनादूर्ध्वं तां च राजन्यादिकामुपयच्छेदित्यर्थः । इदं चाज्ञानविषयम् । ज्ञानतस्तूपपातकसामान्यप्रायश्चित्तं व्यवस्थितमेव द्रष्टव्यम् । साधारणस्त्रीसंभोगे च हीनयोनिनिषेवणमित्युक्तं तत्रापि 'पशुवेश्याभिगमने प्राजापत्यं विधीयते' इति संवतॊक्तमकामतो द्रष्टव्यम् । कामतस्तु यमेनोक्तं द्रष्टव्यम्-'वेश्यागमनजं पापं व्य. पोहन्ति द्विजातयः। पीत्वा सकृत्सकृत्तप्तं सप्तरात्रं कुशोदकम् ॥' इति । उपपा. तकसामान्यप्रायश्चित्तानि च कामाकामतोऽभ्यासापेक्षया योज्यानि । तत्र मत्याभ्यासे तु 'प्रतिनिमित्तं नैमित्तिकमावर्तते' इति न्यायात्प्रतिनिमित्तं नैमित्तिकावृत्तौ प्रसक्तायां लौगाक्षिणा विशेष उक्तः-अभ्यासेऽहर्गुणा वृद्धिर्मासादाक् वि. धीयते । ततो मासगुणा वृद्धिर्यावत्संवत्सरं भवेत् ॥ ततः संवत्सरगुणा यावत्पा समाचरेत् ॥' इति । इदं मतिपूर्वविषयम् । अमतिपूर्वावृत्तौ चतुर्विंशतिमते विशेष उक्त:-'सकृस्कृते तु यत्प्रोक्तं त्रिगुणं तत्रिभिर्दिनैः। मासात्पञ्चगुणं प्रोकं षण्मासाद्दशधा भवेत् ॥ संवत्सरात्पञ्चदशं व्यब्दादिशगुणं भवेत् । ततोऽप्येवं प्रकल्प्यं स्याच्छातातपवचो यथा ॥' इति ॥ यत्पुनः 'विधेः प्राथमिकादसाव द्वितीये द्विगुणं चरेत्' इति प्रतिनिमित्तमावृत्तिविधायकं तन्महापातकविषयमित्युक्तं प्राक् । यत्तु यमेन साधारणस्त्रीगमनमधिकृत्य गुरुतल्पव्रतमतिदिष्टम्-'गुरुतल्पव्रतं केचित्केचिच्चान्द्रायणव्रतम् । गोतस्येच्छन्ति केचित्तु केचिदेवावकीर्णिनः ॥' इति । एतच्च जन्मप्रभृतिसानुबन्धानवच्छिन्नाभ्यासविषयम् । अनन्तरं तथैवानाश्रमे वास इत्युक्तं तत्र हारीतेन विशेष उक्तः-'अनाश्रमी संव. त्सरं प्राजापत्यं कृच्छ्रे चरित्वाश्रममुपेयात् । द्वितीयेऽतिकृच्छ्रे तृतीये कृच्छ्रातिकृच्छ्रमत ऊर्ध्व चान्द्रायणम्' इति, एतदसंभवविषयम् । संभवे तु सामान्येनो. १ हीनस्त्रीनिषेवण ङ. २ पूर्वाभ्यासे. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy