SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः। [आचाराध्यायः स्फीतादिति। संचारिणो रोगाः श्वित्रकुष्ठापस्मारप्रभृतयः शुक्रशोणितद्वारेणानुप्रविशन्तो दोषाः । पुनः हीनक्रियनिःपौरुषत्वादयो मनुनोक्ताः। एतैः समन्विता. रस्फीतादपि पूर्वोक्तान्महाकुलादपि नाहर्तव्या ॥ ५४ ॥ एवं कन्याग्रहणनियममुक्त्वा कन्यादाने वरनियममाह एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः। यत्नात्परीक्षितः पुंस्त्वे युवा धीमान्जनप्रियः ॥ ५५॥ एतैरेव पूर्वोकैर्गुणैर्युक्तो दोषैश्च वर्जितो वरो भवति । तस्यायमपरो विशेषः । सवर्ण उत्कृष्टो वा न हीनवर्णः । श्रोत्रियः स्वयं च श्रुताध्ययनसंपन्नः। यत्नात्प्रय. नेन पुंस्त्वे परीक्षितः । परीक्षोपायश्च नारदेन दर्शितः-'यस्याप्सु प्लवते बीज हादि मूत्रं च फेनिलम् । पुमान्स्याल्लक्षणैरेतैर्विपरीतैस्तु षण्ढकः ॥ (हादिफेनिलमूत्रश्च गुरुशुक्रर्षभस्वरः । पुमान्स्यादन्यथा पाण्डदुश्चिकित्स्यो मुखेभगः ॥ शुभबीजवति क्षेत्रे पुत्राःसंतानवर्धनाः। निष्ठा विवाहमन्त्राणां तासां स्यात्सप्तमे पदे॥') इति । युवा न वृद्धः । धीमान् लौकिकवैदिकव्यवहारेषु निपुणमतिः। जनप्रियः मितपूर्वमृद्वभिभाषणादिभिरनुरक्तजनः ॥ ५५ ॥ रति-पुत्र-धर्मार्थत्वेन विवाहस्त्रिविधः । तत्र पुत्रार्थो द्विविधः नित्यः काम्यश्च । तत्र नित्ये प्रजार्थे सवर्णः श्रोत्रियो वरः' इत्यनेन सवर्णा मुख्या दर्शिता । इदानीं काम्ये नित्यसंयोगे चानुकल्पो वक्तव्य इत्यत आह यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः । नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥५६॥ यदुच्यते 'सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ॥' इत्युपक्रम्य ब्राह्मणस्य चतस्रो भार्याः क्षत्रियस्य तिस्रो वैश्यस्य द्वे इति द्विजातीनां शूद्रावेदनमिति । नैतद्याज्ञवल्क्यस्य मतम् । यस्मादयं द्विजातिस्तत्र स्वयं जायते । 'तजाया जाया भवति यदस्यां जायते पुनः' इति श्रुतेः । अत्र च तत्रायं जायते स्वयमिति हेतुं वदाता नैत्यकपुत्रोत्पादनाय काम्यपुत्रोत्पादनाय वा प्रवृत्तस्य शूद्रापरिणयन निषेधं कुर्वता नैत्यकपुत्रोत्पादनानुकल्पे काम्ये च पुत्रोत्पादने ब्राह्मणस्य क्षत्रियावैश्ये क्षत्रियस्य च वैईयाभार्यानुज्ञाता भवति ॥ ५६ ॥ इदानी रतिकामस्योत्पन्नपुत्रस्य वा विनष्टभार्यस्याश्रमान्तरानधिकारिणो गृहस्थाश्रमावस्थामात्राभिकाङ्गिणः परिणयनक्रममाहतिस्रो वर्णानुपूर्येण द्वे तथैका यथाक्रमम् । ब्राह्मणक्षत्रियविशां भायों स्वा शूद्रजन्मनः ॥ ५७ ॥ वर्णक्रमेण ब्राह्मणस्य तिस्रो भार्याः । क्षत्रियस्य द्वे । वैश्यस्यैका । शूद्रस्य तु १ अयं पाठः कः पुस्तकेऽधिकः. २ स्मितमृदुपूर्वाभिभाषण क. ३ वैश्याभ्यनुशा ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy