SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४२ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः स्वन्तर्भावात् । प्रदानाभावेऽपि विवाहसंस्कारेण संस्कृतत्वात् गान्धर्वादिविवाहपरिणीतावत् । नच 'यस्यास्तु न भवेदाता न विज्ञायेत वा पिता । नोपयच्छेत्तु तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥' इति प्रतिषेधात्सगोत्रास्विव भार्यात्वं नोत्पद्यत इति वाच्यम् । दृष्टार्थरवारप्रतिषेधस्य व्यङ्गांग्यादिप्रतिषेधवत् । दृष्टा. र्थत्वं च पुत्रिकाधर्मशङ्कयेति हेतूपादानात् । नच पुत्रार्थमेव परिणयनं अपितु धर्मा. र्थमपि, अतश्चोत्पादितपुत्रस्य मृतभार्यस्य धर्मार्थ पुत्रिकापरिणयने को विरोधः । प्रपञ्चितं चैतत्पुरस्तादित्यलमतिप्रसङ्गेन । तस्माद्ब्रह्मचारिणो योषिति ब्रह्मचर्यस्खलनस्यागम्यागमनानन्तरीयकत्वान्न पृथङ्नैमित्तिकं प्रयोक्तव्यमिति सुष्टक्तम् ॥ २८०॥ ब्रह्मचारिप्रायश्चित्तप्रसङ्गादन्यदप्यनुपातकप्रायश्चित्तमाह भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रमनातुरः। कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ॥ २८१॥ उपस्थानं ततः कुर्यात्संमासिंचन्त्वनेन तु । यस्त्वनातुर एव ब्रह्मचारी निरन्तरं सप्तरानं भैक्षमग्निकार्य वा त्यजति असौ 'कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामावपोस्म्यवपन्नोस्मि कामकामाय स्वाहा' । इत्येताभ्यां मत्राभ्यामाहुती हुत्वा 'संमा सिंचन्तु मरुतः समिन्द्रः संबृहस्पतिः । समायमग्निः सिंचन्तां यशसा ब्रह्मवर्चसेन ॥' इत्यनेन मन्त्रेणाग्निमुपतिष्ठेत् ॥ एतच्च गुरुपरिचर्यादिगुरुतरकार्यव्यग्रतया अकरणे द्रष्टव्यम् । यदा त्वव्यग्र एवोभे भैक्षाग्निकार्ये त्यजति तदा 'अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥' इति मानवं द्रष्टव्यम् ॥ यज्ञोपवीतविनाशे तु हारीतेन प्रायश्चित्तमुक्तम्-'मनोवतपतीभिश्चतस्र आज्याहुतीर्तुत्वा पुनर्यथार्थ प्रतीयादसट्टैक्षभोजनेऽभ्युदितेऽभिनिर्मुक्के वान्ते दिवा स्वप्ने नग्नस्त्रीदर्शने नमस्त्रापे श्मशानमाक्रम्य हयादींश्चारुह्य पूज्यातिक्रमे चैताभिरेव जुहुयादग्निसमिन्धने स्थावरसरीसृपादीनां वधे यद्देवादेवहेडनमिति कूष्माण्डीभिराज्यं जुहुयात् मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रं जपेत्' इति । मनोवतपतीभिरिति मनोज्योतिरित्यादिमनोलिङ्गामिस्त्वमग्ने व्रतपा असीत्यादिव्रतलिङ्गामिरित्यर्थः । यथार्थ प्रतीयादिति उपनयनोक्तमार्गेण समअकं गृह्णीयादित्यर्थः । यज्ञोपवीतं विना भोजनादिकरणे तु-'ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रं कुरुतेऽथवा । गायत्र्यष्टसहस्रेण प्राणायामेन शुध्यति ॥' इति मरीच्युक्तं द्रष्टव्यम् ॥ २० ॥ मधुमांसाशने कार्यः कुछ्रः शेषव्रतानि च ॥ २८२ ॥ प्रतिकूलं गुरोः कृत्वा प्रसाचैव विशुध्यति । १ समायमद्भिः ख. २ हयादीनारुह्य ख. ३ वासोगृहादीनां ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy