________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
प्रायश्चित्ताध्यायः]
इति । यदि कृच्छ्रशब्देन मुख्योऽर्थो गृह्यते तर्हि गजे शुके वा विशेषेण प्राजापत्य एव स्यात् । नच तद्युक्तम् । तपोमात्रपरत्वे तु दानगुरुलघुभावाकलनया तपसोऽपि गुरुलघुभावो युज्यते । ततश्च गजे द्विमासिकं यावकाशनं शुके तूपवास इति । एवमन्यत्रापि दानानुसारेण प्रायश्चित्तं कल्प्यम् ॥ २७४ ॥
फलपुष्पानरसजसत्त्वधाते घृताशनम् । किंचाह । उदुम्बरादौ फले मधूकादौ च कुसुमे चिरस्थितभक्तसक्त्वाद्यन्ने च रसे गुडादौ च यानि सत्त्वानि प्राणिनो जायन्ते तेषां घाते घृतप्राशनं शुद्धिसाधनम् । इदं च घृतप्राशनं भोजनकार्ये एव विधीयते । प्रायश्चित्तानां तपोरूपत्वात् । दर्शितं च तपोरूपत्वमाङ्गिरसे प्रायश्चित्तपदनिर्वचनव्याजेन'प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते। तपोनिश्चयसंयुक्तं प्रायश्चित्तं तदुच्यते ॥' इति ॥
प्रतिप्राणिप्रायश्चित्तस्यानन्त्यात् पृष्टाकोटेनापि वक्तुमशक्यत्वात्सामान्येन प्रायश्चित्तमाह
किंचित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके ॥ २७५॥ अस्थिमतां कृकलासादिप्राणिनां न्यूनसहस्रसंख्यानां प्रत्येकं वधे किंचित्स्वल्पं धान्यहिरण्यादि देयम् । अनस्थिके त्वेकः प्राणायामः । तत्र किंचिदिति यदा हिरण्यं दीयते तदा पणमात्रम् 'अस्थिमतां वधे पणो देयः' इति सुमन्तुस्सरणात् । यदा तु धान्यं देयं तदाष्टमुष्टि देयम् 'अष्टमुष्टि भवेत्किंचित्' इति स्मरणात् । एतच्चानुक्तनिष्कृतिप्राणिवधविषयम् । यत्र तु प्रायश्चित्तविशेषः श्रूयते तत्र स एव भवति । यथाह पराशरः-'हंससारसचक्राहक्रौचकुक्कुटघातकः। मयूरमेषौ हत्वा च एकभक्तेन शुध्यति ॥ मटुं च टिट्टिभं चैव शुकं पारावतं तथा। आडिकां च बकं हत्वा शुध्येद्वै नक्तभोजनात् ॥ चाषकाककपोतानां सारीतित्तिरघातकः। अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति ॥ गृध्रश्येनविहङ्गानामुलूकस्य च घातकः। अपक्वाशी दिनं तिष्ठेवौ कालौ मारुताशनः ॥ हत्वा मूषिकमार्जारसजिगरडुण्डुभान् । प्रत्येकं भोजयेद्विप्रांल्लोहदण्डश्च दक्षिणा ॥ सेधाकच्छपगोधानां शशंशल्यकघातकः । वृन्ताकफलगुजाशी अहोरात्रेण शुध्यति ॥ मृगरोहिवराहाणामविकाबस्तघातने । वृकजम्बूकक्षाणां तरक्षूणां च घातकः ॥ तिलप्रस्थं त्वसौ दद्याद्वायुभक्षो दिनत्रयम् । गजमेषतुर. गोष्ट्रगवयानां निपातने ॥ प्रायश्चित्तमहोरात्रं त्रिसंध्यं चावगाहनम् । खरवानरसिंहानां चित्रकव्याघ्रघातकः ॥ शुद्धिमेति त्रिरात्रेण ब्राह्मणानां च भोजनैः॥' इति ॥ एवमन्येषामपि स्मृतिवचसा देशकालाद्यपेक्षया विषयव्यवस्था कल्पनीया ॥ २७५॥
इति हिंसाप्रायश्चित्तप्रकरणम् ।
१ कृसरं भोजयेत् ङ. २ शशशलक ङ.
For Private And Personal Use Only