SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवाहप्रकरणम् ३] मिताक्षरासहिता । क्षपयन् विजितेन्द्रियः इन्द्रियजये विशेषप्रयत्नवान्ब्रह्मचारी ब्रह्मलोकममृतत्वमानोति । न कदाचिदिह पुनजीयते ॥ ४९ ॥ ५० ॥ इति ब्रह्मचारिप्रकरणम् । अथ विवाहप्रकरणम् ३ यः पुनर्विवाह्यस्तस्य विवाहार्थ स्नानमाह गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया । वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ॥ ५१ ॥ पूर्वोक्तेन न्यायेन वेदं मन्त्रब्राह्मणात्मकम्, व्रतानि ब्रह्मचारिधर्माननुक्रान्तान्, उभयं वा पारं नीत्वा समाप्य, गुरवे पूर्वोक्ताय वरमभिलषितं यथाशक्ति दवा स्वायात् । अशक्तौ तदनुज्ञया अदत्तवरोऽपि । एषां च पक्षाणां शक्तिकालाद्यपे क्षया व्यवस्था ॥ ५१ ॥ स्नानानन्तरं किं कुर्यादित्यत आह अवित्रह्मचर्यो लक्षण्यां स्त्रियमुदहेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ॥ ५२ ॥ १६ अविष्ठुतब्रह्मचर्योऽस्खलितब्रह्मचर्यः । लक्षण्यां बाह्याभ्यन्तरलक्षणैर्युक्ताम् । बाह्यानि 'तनुलोमकेशदशनाम्' इत्यादीनि ( ३।१०) मनुनोक्तानि । आभ्यन्तराणि 'भष्टौ पिण्डान्कृत्वा' इत्याद्याश्वलायनोक्तविधिना ज्ञातव्यानि । स्त्रियं नपुंसकत्वनिवृत्तये स्त्रीत्वेन परीक्षिताम् । अनन्यपूर्विकां दानेनोपभोगेन वा पुरुषान्तरापरिगृहीताम् । कान्तां कमनीयां वोदुर्मनोनयनानन्दकारिणीम् । 'यस्यां मनश्चक्षुषोर्निर्बन्धस्तस्यामृद्धिः' इत्यापस्तम्ब स्मरणात् । एतच्च न्यूनाधिकाङ्गादिबाह्यदोषाभावे । असपिण्डां समान एकः पिण्डो देहो यस्याः सा सपिण्डा न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन भवति । तथाहि पुत्रस्य पितृशरीरावयवान्वयेन पित्रासह । एवं पितामहादिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादिभिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभिरप्येकशरीरावयवान्वयात् । तथा पितृव्यपितृष्वस्त्रादिभिरपि । तथा पत्यासह पढ्या एकशरीरारम्भकतया । एवं भ्रातृभार्याणामपि परस्परमेकशरीरारधैः १ केशादीनि मनुप्रोक्तानि क. २ तानिच - पूर्वस्यां रात्रौ गोष्ठवल्मीककितवस्थानहदेरिणक्षेत्रचतुष्पथश्मशानेभ्यो मृत्तिकां गृहीत्वा पिण्डाष्टकं कर्तव्यम् । तत्रानुक्रमेण प्रथमे पिण्डे स्पृष्टे धान्यवती भवेत् । द्वितीये स्पृष्टे पशुमती भवेत् । तृतीयेऽग्निहोत्रशुश्रूषणपरा भवति । चतुर्थे विवेकिनी चतुरा सर्वजनार्जनपरा भवति । पञ्चमे रोगिणी । षष्ठे वन्ध्या । सप्तमे व्यभिचारिणी । अष्टमे विधवा भवेदित्याश्वलायनोक्तानि ३ सह सापिण्ड्यं ख. ४ एकशरीरारम्भः क. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy