SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः । [ आचाराध्यायः मधु क्षौद्रं न मथम् । तस्य 'नित्यं मद्यं ब्राह्मणो वर्जयेत्' इति निषेधात् । मांसं छागादेरपि । अञ्जनं घृतादिना गात्रस्य, कज्जलादिना चाक्ष्णोः । उच्छिष्टमगुरोः । शुक्तं निष्ठुरवाक्यं नोनरसः, तस्याभक्ष्यप्रकरणे निषेधात् । स्त्रियमुपभोगे । प्राणिहिंसनं जीववधः । भास्करस्योदयास्तमयावलोकनम् । अश्लीलमसत्यभाषणम् । परिवादः सदसद्रूपस्य परदोषस्य ख्यापनम् | आदिशब्दात्स्मृत्यन्तरोक्तं गन्धमायादि गृह्यते । एतानि ब्रह्मचारी वर्जयेत् ॥ ३३ ॥ गुर्वाचार्यादिलक्षणमाह स गुरुः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥ ३४ ॥ aisai गर्भाधानाथा उपनयनपर्यन्ताः क्रिया यथाविधि कृत्वा वेदमस्मै ब्रह्मचारिणे प्रयच्छति स गुरुः । यः पुनरुपनयनमात्रं कृत्वा वेदं प्रयच्छति स आचार्यः ॥ ३४ ॥ उपाध्यायविंग्लक्षणम् - एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥ ३५ ॥ वेदस्यैकदेशं मन्त्रब्राह्मणयोरेकं अङ्गानि वा योऽध्यापयति स उपाध्यायः । यः पुनः पाकयज्ञादिकं वृत्तः करोति स ऋत्विक् । एते च गुर्वाचार्योपाध्यायविजो यथापूर्वं यथाक्रमेण मान्याः पूज्याः । एभ्यः सर्वेभ्यो माता गरीयसी पूज्यतमा ॥ ३५ ॥ वेदग्रहणार्थं ब्रह्मचर्यावधिमाह - प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा । ग्रहणान्तिकमित्येके केशान्तचैव षोडशे ॥ ३६ ॥ यदा विवाहासंभवे वेदानधीत्य वेदौ वा वेदं वेति प्रवर्तते तदा प्रतिवेद वेदवेदं प्रति ब्रह्मचर्य पूर्वोक्तं द्वादशवर्षाणि कार्यम् । अशक्तौ पञ्च । ग्रहणान्तिकमित्येके वर्णयन्ति । केशान्तः पुनमदानाख्यं कर्म गर्भादारभ्य षोडशे वर्षे ब्राह्मणस्य कार्यम् । एतच्च द्वादशवार्षिके वेदवते बोद्धव्यं इतरस्मिन्पक्षे यथासंभवं द्रष्टव्यम् । राजन्यवैश्ययोस्तूपनयनकालवद्वाविंशे चतुर्विंशे वा द्रष्टव्यम् ॥ ३६ ॥ उपनयनकालस्य परमावधिमाह आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात् 1 ब्रह्मविशां काल औपनायनिकः परः || ३७ ॥ १ न रसादि क. २ भास्करस्य चालोकनं क. ३ गुह्यभाषणं ख. ४ ददाति ख. ५ गावः केशा दीयन्ते खण्डयन्ते यस्मिन्. ६ वा यथासंभवं ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy