________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०
याज्ञवल्क्यस्मृतिः। . [प्रायश्चित्ताध्यायः
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥१११॥ 'आत्मन्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्याहृत आत्मैकविषयाणि कृत्वा आत्मा ध्येयः । योऽसौ प्रभुर्निर्वातस्थप्रदीपवद्दीप्यमानो निष्पकम्पो हृदि तिष्ठति । एतदेव तस्य ध्येयत्वं यच्चित्तवृत्तेर्बहिर्विषयावभासतिरस्कारेणात्मप्रवणतानाम शरावसंपुटनिरुद्धप्रभाप्रतानप्रसरस्येव प्रदीपस्यैकनिष्ठत्वम् १११
यस्य पुनश्चित्तवृत्तिनिराकारालम्बनतया समाधौ नाभिरमते तेन शब्दब्रह्मो. पासनं कार्यमित्याह
यथाविधानेन पठन्सामगायमविच्युतम् ।
सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति ॥ ११२ ॥ स्वाध्यायावगतमार्गानतिक्रमेण सामगायं सामगानम् । साम्नो गानात्मकस्वेऽपि गायमिति विशेषणं प्रगीतमन्नव्युदासार्थम् । अविच्युतमस्खलितं सावधानः सामध्वन्यनुस्यूतात्मैकाग्रचित्तवृत्तिः पठंस्तदभ्यासवशात् तत्र निष्णातः शब्दाकारशून्योपासनेन परं ब्रह्माधिगच्छति । तदुक्तम्-'शब्दब्रह्मणि नि. ष्णातः परं ब्रह्माधिगच्छति' इति ॥ ११२॥
यस्य पुनर्वैदिक्यां गीतौ चित्तं नाभिरमते तेन लौकिकगीतानुस्मृतात्मोपासनं कार्यमित्याह
अपरान्तकमुल्लोप्यं मद्रकं प्रेकरी तथा। औवेणकं सरोबिन्दुमुत्तरं गीतकानि च ॥ ११३ ॥. ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका ।
गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम् ॥ ११४ ॥ अपरान्तकोल्लोप्यमदकप्रकौवेणकानि सरोविन्दुसहितं चोत्तरमित्येतानि प्रकराख्यानि सप्त गीतकानि । चशब्दादासारितवर्धमानकादिमहागीतानि गृह्यन्ते । ऋग्गाथाद्याश्चतस्रो गीतिका इत्येतदपरान्तकादिगीतजातमध्यारोपि. वात्मभावं मोक्षसाधनत्वान्मोक्षसंज्ञितं मन्तव्यम् । तदभ्यासस्यैकाग्रतापादनद्वारेणास्मैकाग्रतापत्तिकारणत्वात् ॥ ११३ ॥ ११४ ॥ .
वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश्चाप्रयासेन मोक्षमार्ग नियच्छति ॥ ११५ ॥ किंच । भरतादिमुनिप्रतिपादितवीणावादनतत्त्ववेदी । श्रूयत इति श्रुतिः द्वाविंशतिविधा सप्तस्वरेषु । तथाहि । षड्जमध्यमपञ्चमाः प्रत्येकं चतुःश्रुतयः ऋषभधैवतौ प्रत्येकं त्रिश्रुती गान्धारनिषादौ प्रत्येकं द्विश्रुती इति । जातयस्तु षड्डादयः सप्त शुद्धाः संकरजातयस्त्वेकादशेत्येवमष्टादशविधास्तासु विशारदः प्रवीणः । ताल इति गीतैपरिमाणं कथ्यते । तत्स्वरूपज्ञश्च तदनुविद्धब्रह्मोपासन१ अनुस्मृतात्मैक क. . २ मकरी ख. ३ गीतप्रमाणं कल्प्यते ख.
For Private And Personal Use Only