SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ३४४ Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः नाडीभिर्वायुवाहिनीभिः स्नायुमिरस्थिबन्धनैः शिरामिर्वातपित्तश्लेष्मवाहिनी - भिश्च संयुतः । तथाष्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति ॥ ८१ ॥ पुनर्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति । अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥ ८२ ॥ । किंच । तस्याष्टममासिकस्य गर्भस्यौजः कश्चन गुणविशेषो धात्रीं गर्भं च प्रति पुनः पुनरतितरां चञ्चलतया शीघ्रं गच्छति । अतोऽष्टमे मासि जातो गर्भः प्राणैर्वियुज्यते । आनेनौजः स्थितिरेव जीवनहेतुरिति दर्शयति ॥ ओजःस्वरूपं च स्मृत्यन्तरे दर्शितम् - 'हृदि तिष्ठति यच्छुद्धमीषदुष्णं सपीतकम् । ओजः शरीरे संख्यातं तन्नाशान्नाशमृच्छति ॥' इति ॥ ८२ ॥ नवमे दशमे वापि प्रबलैः सूतिमारुतैः । निःसार्यते वाण इव यच्छिद्रेण सज्वरः ॥ ८३ ॥ किंच । एवं करचरणचक्षुरादिपरिपूर्णाङ्गेन्द्रियो नवमे दशमे वापि मासे अपिशब्दात्प्रागपि सप्तमेऽष्टमे वा अत्यायासादिदोषवत्प्रबलसूतिहेतुप्रभञ्जनप्रेरितस्त्रायवस्थिचर्मादिनिर्मितवपुर्यत्रस्य छिद्रेण सूक्ष्मसुषिरेण सज्वरो दुःसहदुःखाभिभूयमानो निःसार्यते धनुर्यत्रेण सुधन्वप्रेरितो बाण इवातिवेगेन निर्गम. समनन्तरं च बाह्यपवनस्पृष्टो नष्टप्राचीनस्मृतिर्भवति । 'जातः स वायुना स्पृष्टो न स्मरति पूर्व जन्म मरणं कर्म च शुभाशुभम्' इति निरुक्तस्याष्टादशेऽभिधानात् ॥ ८३॥ कायस्वरूपं विवृण्वन्नाह तस्य षोढा शरीराणि षट् त्वचो धारयन्ति च । षडङ्गानि तथास्थां च सह षष्ट्या शतत्रयम् ॥ ८४ ॥ तस्यात्मनो यानि जरायुजाण्डजशरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषधातु परिपाक हेतु भूतषडग्निस्थानयोगित्वेन । तथा ह्यन्नरसो जाठराग्निना पच्यमानो रक्ततां प्रतिपद्यते । रक्तं च स्वकोशस्थेनामिना पच्यमानं मांसत्वम् । मांसं च स्वकोशानलपरिपक्कं मेदस्त्वम् । मेदोऽपि स्वकोशवह्निना पक्कमस्थिताम् । अस्थ्यपि स्वकोशशिखिपरिपक्कं मज्जात्वम् । मज्जापि स्वकोशपावकपरिपच्यमानचरमधातुतया परिणमते । चरमधातोस्तु परिणतिर्नास्तीति स एवात्मनः प्रथमः कोशः । इत्येवं षट्कोश | ग्नियोगित्वात् षट्प्रकारत्वं शरीराणाम् । अन्नरसरूपस्य तु प्रथमधातोरनियतत्वान्न तेन प्रकारान्तरत्वम् । तानि च शरीराणि षट् त्वचो धारयन्ति रक्तमांसमेदोस्थिमज्जाशुक्राख्याः षट् धातव एव रम्भास्तम्भत्वगिव बाह्याभ्यन्तररूपेण स्थिताः त्वगिवाच्छ । दकत्वात्वचखाः षट्त्वचो धारयन्ति । तदिदमायुर्वेदप्रसिद्धम् । तथाङ्गानि च षडेव करयुग्मं चरणयुगलमुत्तमाङ्ग १ तथाष्टम ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy