SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४२ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः। धारणा प्रेरणं दुःखमिच्छाहंकार एव च ॥ ७३ ॥ प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ । तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः ॥ ७४ ॥ किंच । इन्द्रियाणि ज्ञानकर्मेन्द्रियाणि वक्ष्यमाणानि । मनश्चोभयसाधारणम् । प्राणोऽपानो व्यान उदानः समान इत्येवं पञ्चवृत्तिभेदभिन्नः शारीरो वायुः प्राणः ज्ञानमवगमः । आयुः कालविशेषावच्छिन्नं जीवनम् । सुखं निर्वृतिः। धृतिश्चित्तस्थैर्यम् । धारणा प्रज्ञा मेधा च । प्रेरणं ज्ञानकर्मेन्द्रियाणामधिष्ठातृत्वम् । दुःखमुद्वेगः । इच्छा स्पृहा । अहंकारोऽहंकृतिः । प्रयत्न उद्यमः । आकृतिराकारः । वर्णो गौरिमादिः । स्वरः षड्जगान्धारादिः । द्वेषो वैरम् । भवः पुत्रपश्चादिविभवः । अभवस्तद्विपर्ययः । तस्यानादेरात्मनो नित्यस्यादिमिच्छतः शरीरं जिघृ. क्षमाणस्य सर्वमेतदिन्द्रियादिकमात्मजनितं प्राग्भवीयकर्मबीजजन्यमित्यर्थः ॥ संयुक्तशुक्रशोणितस्य कार्यरूपपरिणतौ क्रममाह प्रथमे मासि संक्लेदभूतो धातुविमच्छितः । मास्यबुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः ॥ ७५ ॥ असौ चेतनः षष्ठो धातुः धातुविमूछितो धातुषु पृथिव्यादिषु विमूच्छितो लोलीभूतः । क्षीरनीरवदेकीभूत इति यावत् । प्रथमे गर्भमासे संक्लेदभूतो वरूपतां प्राप्त एवावतिष्ठते न कठिनतया परिणमते । द्वितीयेषु मास्यर्बुदमीष. स्कठिनमांसपिण्डरूपं भवति । अयमभिप्रायः-कौठ्यपवनजठरदहनाभ्यां प्रतिदिनमीपदीपच्छोष्यमाणं शुक्रसंपर्क संपादितद्रवीभावं भूतजातं त्रिंशद्भिर्दिनैः काठिन्यमापद्यत इति । तथाच सुश्रुते-'द्वितीये शीतोष्णानिलैरभिपच्यमानो भूतसंघातो घनो जायते' इति । तृतीये तु मास्यङ्गैरिन्द्रियैश्च संयुक्तो भवति ७५ आकाशाल्लाघवं सौम्यं शब्दं श्रोत्रं बलादिकम् । वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च ।। ७६ ।। पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशिताम् । रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥ ७७ ॥ भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च । आत्मा गृह्णात्यजः सर्व तृतीये स्पन्दते ततः ॥ ७८ ॥ किंच । आत्मा गृह्णातीति सर्वत्र संबध्यते । गगनालघिमानं लङ्घन क्रियोपयोगिनम् । सौक्ष्म्यं सूक्ष्मेक्षित्वम् । शब्द विषयम् । श्रोत्रं श्रवणेन्द्रिम् । बलं १ कोठपवन ऊ. २ संपर्का द्रवीभूतं ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy