SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपोद्घातप्रकरणम् १] मिताक्षरासहिता । तीनां धर्मशास्त्राध्ययनेऽधिकारो ब्राह्मणस्य प्रवचने नान्यस्येति दर्शयति (२०१६) 'निषेकादिश्मशानान्तो मत्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिन्ज्ञेयो नान्यस्य कर्हिचित् ॥ विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः। शिज्येभ्यश्च प्रवक्तव्यं सम्यङ्नान्येन केनचित् ॥' इति ॥ ३ ॥ अस्तु धर्मशास्त्रमध्येतव्यं, याज्ञवल्क्यप्रणीतस्यास्य शास्त्रस्य किमायातमित्यत आह मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोङ्गिराः। यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥४॥ पराशरव्यासशङ्खलिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रेयोजकाः ॥५॥ उशनःशब्दपर्यन्तो द्वन्द्वैकवद्भावः । याज्ञवल्क्यप्रणीतमिदं धर्मशास्त्रमध्येतव्यमित्यभिप्रायः । नेयं परिसंख्या किंतु प्रदर्शनार्थमेतत् । अतो बौधायनादेरपि धर्मशास्त्रत्वमविरुद्धम् । एतेषां प्रत्येकं प्रामाण्येऽपि साकाङ्क्षाणामाकाङ्क्षापरिपूरणमन्यतः क्रियते । विरोधे विकल्पः ॥ ४ ॥ ५ ॥ इदानीं धर्मस्य कारकहेतूनाह देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् । प्राप्ते प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ ६॥ देशो 'यस्मिन्देशे मृगः कृष्ण' इत्युक्तलक्षणः । कालः संक्रान्त्यादि । उपायः शास्त्रोक्ततिकर्तव्यताकलापः । द्रव्यं प्रतिग्रहादिलब्धं गवादि । श्रद्धा आस्तिक्यविस्तदन्वितं यथा भवति तथा। पात्रं न विद्यया केवलये'त्येवमादिवक्ष्यमाणलक्षणम् ।प्रदीयते यथा न प्रत्यावर्तते तथा परस्वत्वापत्त्यवसानं त्यज्यते । एतद्धर्मस्योत्पादकम् । किमेतावदेव नेत्याह-सकल मिति । अन्यदपि शास्त्रोक्तं जातिगुणहोमयागादि तत्सकलं धर्मस्य कारकं, जातिगुणद्रव्यक्रियाभावार्थात्मकं चतुर्विधं धर्मस्य कारकमित्युक्तं भवति । तच्च समस्तं व्यस्तं वा यथाशास्त्रं द्रष्टव्यम् । श्रद्धा सर्वत्रानुवर्तत एव ॥ ६ ॥ इदानीं धर्मस्य ज्ञापकहेतूनाह. श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ ७॥ श्रुतिर्वेदः । स्मृतिधर्मशास्त्रम् । तथाच मनुः (२०१०) श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः' इति । सदाचारः सतां शिष्टानामाचारोऽनुष्ठानम् । स्वस्य १ कस्यचित् क. ख. २ प्रवर्तकाः इति क. पाठः. ३ परिसंख्यानाम एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनम् । एतद्विस्तरोऽये ८१ श्लोकमिताक्षरायां द्रष्टव्यः. ४ विरोधे तु ख. ५ नुष्ठानं नाशिष्टानाम् ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy