SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१४ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः विषमं तस्मिन्नेवातिकालजम् ॥' इति । अयमर्थः-वयसि त्रिवर्षादिरूपे यदा. शौच मादन्तजन्मनः सद्यः' इत्यादिवाक्यविहितं तत्सर्वेषां ब्राह्मणादिवर्णानां तुल्यमविशिष्टम् । अतिक्रान्ते च दशाहादिके व्यहादि यदाशौचं तदपि सर्वेषामविशिष्टम् । उपनीते पुनरुपरते दशद्वादशपञ्चदशत्रिंशद्दिनानीत्येवं विषममाशौचं ब्राह्मणादीनाम् । तस्मिन्नेवोपनीतोपरम एव अतिकालजमतिक्रान्ताशौचं भवति न वयोवस्थाशौचातिक्रम इति ॥ २१ ॥ क्षत्रियादिषु दशरात्रस्य सपिण्डाशौचस्यापवादमाह क्षत्रस्य द्वादशाहानि विशः पश्चदशैव तु । त्रिंशदिनानि शूद्रस्य तदर्ध न्यायवर्तिनः ॥ २२ ॥ क्षत्रियवैश्यशूद्राणां सपिण्डजनने तदुपरमे च यथाक्रमेण द्वादशपञ्चदशत्रिं. शदिनान्याशौचं भवति । न्यायवर्तिनः पुनः शूद्रस्य पाकयज्ञविजशुश्रूषादिरतस्य तदर्धं तस्य मासस्याधं पञ्चदशरात्रमाशौचम् । एवं च त्रिरात्रं दशरात्रं वेत्येतद्दशरात्रमाशौचं पारिशेष्याद्राह्मणविषये व्यवतिष्ठते । स्मृत्यन्तरेषु तु क्षत्रियादीनां दशाहादयोऽप्याशौचकल्पा दर्शिताः । यथाह पराशरः-'क्षत्रियस्तु दशाहेन स्वकर्मनिरतः शुचिः । तथैव द्वादशाहेन वैश्यः शुद्धिमवाप्नुयात् ॥' तथाच शातातपः-'एकादशाहाद्राजन्यो वैश्यो द्वादशभिस्तथा । शूदो विंशतिरात्रेण शुध्येत मृतसूतके ॥' वसिष्ठस्तु–'पञ्चदशरात्रेण राजन्यो विंशतिरानेण वैश्य' इति ॥ अङ्गिरास्त्वाह-'सर्वेषामेव वर्णानां सूतके मृतके तथा । दशाहाच्छुद्धिरेतेषामिति शातातपोऽब्रवीत् ॥' इत्येवमनेकोच्चावचाशौचकल्पा दर्शिताः तेषां लोके समाचाराभावान्नातीव व्यवस्थाप्रदर्शनमुपयोगीति नात्र व्यवस्था प्रदयते । यदा पुनर्ब्राह्मणादीनां क्षत्रियादयः सपिण्डा भवन्ति तदा हारीतायुक्ताशौचकल्पोऽनुसरणीयः । 'दशाहाच्छुध्यते विप्रो जन्महानौ स्व. योनिषु । षड्भिस्त्रिभिरथैकेन क्षत्रविदशूद्रयोनिषु ॥' इति । विष्णुरप्याह'क्षत्रियस्य विदशूद्वेषु सपिण्डेषु षड्रावत्रिरात्राभ्यां वैश्यस्य शूद्रे सपिण्डे षड्रा. त्रेण शुद्धिीनवर्णानां तूत्कृष्टेषु सपिण्डेषु जातेषु मृतेषु वा तदाशौचव्यपगमे शुद्धिः' इति । बौधायनेन त्वविशेषेण दशाह इत्युक्तम्-'क्षत्रविदशूद्रजातीया ये स्युर्विप्रस्य बान्धवाः । तेषामाशोचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥' इति । अनयोश्च पक्षयोरापदनापद्विषयत्वेन व्यवस्था । दास्यादीनां तु स्वामिशौचेन स्पृश्यत्वं, कर्मानधिकारत्वं तु मासावधिरेव । तदाहाङ्गिराः-'दासी दासश्च सर्वो वै यस्य वर्णस्य यो भवेत् । तद्वर्णस्य भवेच्छौचं दास्या मासस्तु सूतकम् ॥' इति । प्रतिलोमानां त्वाशौचाभाव एव-'प्रतिलोमा धर्महीनाः' इति मनुस्मरणात् । केवलं मृतौ प्रसवे च मलापकर्षणार्थ मूत्रपुरीपोत्सर्गवत् शौचं भवत्येव ॥ २२ ॥ १ पुनरुपरमे ख. २ त्रिरात्रं वेति ख. ३ स्वाम्याशौचेन ख. ४ ऽनधिकारस्तु क. ङ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy