________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता।
३०७ स्यात्पण्निशाः पुंसि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः सप्तमे स्वहरेव तु ॥' इति तद्विगीतस्वाचादरणीयम् । यद्यप्यविगीतं तथापि मधुपर्काङ्गपश्वालम्भनवल्लोकविद्विष्टत्वानानुष्टेयम् । 'भस्वयं लोकविद्विष्टं धर्म्यमप्याचरेन तु' इति मनुस्मरणात् । नच सप्तमे प्रत्यासन्ने सपिण्ड एकाहो विप्रकृष्टाष्टमादिषु समानोदकेषु त्र्यहमिति युक्तम् । एवमविशेषेण सपिण्डानामाशौचे प्राप्ते क्वचिनियमार्थमाह। उनद्विवर्षे संस्थिते उभयोरेव मातापित्रोदशरात्रमाशौचं न सर्वेषां सपिण्डानाम् । तेषां तु वक्ष्यति 'आदन्तजननात्सद्यः' इति । तथाच पैङ्गयः-गर्भस्थे प्रेते मातुर्दशाह, जात उभयोः, कृते नाम्नि सोदराणां च' इति । अथवा अयमर्थः-उनद्विवर्षे संस्थिते उभयोर्मातापित्रोरेव अस्पृश्यत्वलक्षणमाशौचं न सपिण्डानाम् । तथा स्मृत्यन्तरे-'ऊनद्विवर्षे प्रेते मातापित्रोरेव नेतरेषाम्' इति अस्पृश्यत्वलक्षणमभिप्रेतम् । इतरस्य पुनः कर्मण्यनधिकारलक्षणस्य सपिण्डेष्वपि 'भादन्तजन्मनः सद्यः' इत्यादिभिर्विहितत्वात् । अत्र दृष्टान्तः-सूतकं मातुरेव हीति । यथा सूतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौचं मातुरेव केवलं तथो. नद्विवर्षापरमे मातापित्रोरेवास्पृश्यत्वमिति । उनद्विवर्षे सपिण्डानामस्पृश्यत्वं प्रतिषेधताऽन्यत्रास्पृश्यत्वमभ्यनुज्ञातं भवति । तथाच देवल:-'स्वाशौचकालाद्विज्ञेयं स्पर्शनं च त्रिभागतः । शूद्वविदक्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥' इति । एतच्चानुपनीतप्रयाणनिमित्ते अतिक्रान्ताशौचे च त्रिरात्रादौ वेदितव्यम् । उपनीतविषयेऽपि तेनैवोक्तम्-- 'दशाहादित्रिभागेन कृते संचयने क्रमात् । अगस्पर्शनमिच्छन्ति वर्णानां तस्वदर्शिनः ॥ त्रिचतुःपञ्चदशभिः स्पृश्या वर्णाः क्रमेण तु । भोज्यानो दशमिर्विप्रः शेषा द्वित्रिषडुत्तरैः ॥' इति । व्युत्तरैर्दशभिः घ्युत्तरादशभिः षडुत्तरैः पञ्चदशभिरिति द्रष्टव्यम् ॥ १८ ॥ जनननिमित्तमस्पृश्यत्वलक्षणमाशौचमाह
पित्रोस्तु सूतकं मातुस्तदमृग्दर्शनाद्भुवम् ।
तदहर्न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥ १९ ॥ सूतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौचं पित्रोर्मातापित्रोरेव न सर्वेषां सपिण्डानाम् । तच्चास्पृश्यत्वं मातुर्बुवं दशाहपर्यन्तं स्थिरमित्यर्थः । कुतः । तदसृग्दर्शनात् । तस्याः संबन्धित्वेनासृजो दर्शनात् ॥ अतएव वसिष्ठः-'नाशौचं विद्यते पुंसः संसर्ग चेन्न गच्छति । रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यते ॥' इति । पितुस्तु ध्रुवं न भवति सानमात्रेणास्पृश्यत्वं निवर्तते । यथाह संवतः-'जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते । माता शुद्ध्येद्दशाहेन स्वानात्तु स्पर्शनं पितुः ॥' इति । माता शुद्ध्येद्दशाहेनेत्येतच्च संव्यवहारयोग्यतामात्रम् । अदृष्टार्थेषु पुनः कर्मसु पैठीनसिना विशेष उक्तः-'सूतिका पुत्रवती विंशतिरात्रेण कर्माणि कारयेत् । मासेन स्त्रीजननीम्' इति ॥ अङ्गिरसा च सपिण्डानामस्पृश्यत्वाभावः स्पष्टीकृतः-'सूतके सूतिकावयं संस्पर्शो न नि. १ इदं वचनं पूर्वमाचाराध्याये आलोचनीयम्. .
या. २९
For Private And Personal Use Only