________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
याज्ञवल्क्यस्मृतिः
[प्रायश्चित्ताध्यायः
अतिदेशादाह
प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि ।
इच्छतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् ॥ १४ ॥ यदेतत्पूर्वोक्तं निम्बपत्रदशनादि वेश्मप्रवेशनान्तं कर्म तन्न केवलं ज्ञातीना. मपि तु परेषामपि धर्मार्थ प्रेतालंकारनिर्हरणादिकं कुर्वतां भवति । प्रवेशनादिकमित्यत्र आदिशब्दोऽमाङ्गलिकत्वात्प्रतिलोमक्रमामिप्रायः। तेषां च धर्मार्थ निहरणादौ प्रवृत्तानां तत्क्षणाच्छुद्धिमिच्छतां असपिण्डानां स्नानप्राणायामाभ्यामेव शुद्धिः। यथाह पराशर:-'अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः। पदेपदे यज्ञफलमनुपूर्व लभन्ति ते ॥ न तेषामशुभं किंचित्पापं वा शुभकर्मणाम् । जलावगाहनात्तेषां सद्यः शौचं विधीयते ॥' इति ॥ स्नेहादिना निर्हरणे तु मनूक्तो विशेषः (५।१०१।१०२)-'असपिण्डं द्विजं प्रेतं विप्रो निहत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति । अनदन्नन्नमहैव न चेत्तस्मिन्गृहे वसेत् ॥' इति ॥ अत्रेयं व्यवस्था-यः स्नेहादिना शवनिहरणं कृत्वा तदीयमेवान्नमश्नाति तद्गृहे च वस. ति तस्य दशाहेनैव शुद्धिः । यस्तु केवलं तद्गृहे वसति न पुनस्तदन्नमश्नाति तस्य त्रिरात्रम् । यः पुनर्निर्हरणमात्रं करोति न तद्हे वसति न च तदन्नमश्नाति तस्यैकाह इति ॥ एतत्सजातीयविषयम् । विजातीयविषये पुनर्यजातीयं प्रेतं निहरति तजातिप्रयुक्तमाशौचं कार्यम् । यथाहगौतमः-'अवरश्चेद्वर्णः पूर्व वर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र तच्छवोक्तमाशौचम्' इति ॥ उपस्पर्शनं निर्हरणम् । विप्रस्य शूद्रनिर्हरणे मासमाशौचम् । शूद्रस्य तु विप्रनिर्हरणे दशरात्रमित्येवं शववदाशौचं कर्तव्यमित्यर्थः ॥ १४ ॥ ब्रह्मचारिणं प्रत्याह
आचार्यपित्रुपाध्यायानिहत्यापि व्रतीव्रती ।
सकटान्नं च नाश्नीयान च तैः सह संवसेत् ॥ १५ ॥ आचार्य उक्तलक्षणः, माता च पिता च पितरौ, उपाध्यायश्च पूर्वोक्तः, एतानिर्हत्यापि व्रती ब्रह्मचारी व्रत्येव न पुनरस्य व्रतभ्रंशः । कटशब्देनाशौचं लक्ष्यते तत्सहचरितमन्नं सकटान्नं तद्ब्रह्मचारी नाश्नीयात् । न चाशौचिभिः सह संवसेत् । एवं वदता आचार्यादिव्यतिरिक्तप्रेतनिर्हरणे तु ब्रह्मचारिणो व्रतलोप इत्य
र्थादुक्तं भवति । अतएव वसिष्टेनोक्तम्-'ब्रह्मचारिणः शवकर्मिणो व्रतान्नि. वृत्तिरन्यत्र मातापित्रोः' इति ॥ १५॥ आशौचिनां नियमविशेषमाह
क्रीतलब्धाशना भूमौ स्खपेयुस्ते पृथक् क्षितौ । १ तत्क्षणाच्छुद्धिं ङ. २ पृथक्पृथक्. ख.
For Private And Personal Use Only