SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८२ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् । विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ २७९ ॥ किंच | अगर्भिणीमित्यनुवर्तते । या च परवधार्थमन्नपानादिषु विषं ददाति क्षिपति । याच दाहार्थं ग्रामादिष्वग्निं ददाति । तथा या च निजपतिगुर्वपत्यानि मारयति तां विच्छिन्नकर्णकरनासौष्ठीं कृत्वा अदान्तैर्दुष्टबलीवदैः प्रवाह्य मारयेत् । स्तेयप्रकरणे यदेतत्साहसिकस्य दण्डविधानं तत्प्रासङ्गिकमिति मन्तव्यम् ॥ २७९ ॥ अविज्ञातकर्तृके हनने हन्तृज्ञानोपायमाह अविज्ञातहतस्याशु कलहं सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ २८० ॥ अविज्ञातहतस्याविज्ञातपुरुषेण घातितस्य संबन्धिनः सुताः प्रत्यासन्नबान्धवाश्च केनास्य कलहो जात इति कलहमाशु प्रष्टव्याः । तथा मृतस्य संबन्धिन्यो योषितो याश्च परपुंसि रता व्यभिचारिण्यस्ता अपि प्रष्टव्याः ॥ २८० ॥ कथं प्रष्टव्या इत्यत आह स्त्रीद्रव्यवृत्तिकामो वा केन चायं गतः सह । मृत्युदेश समासनं पृच्छेद्वापि जनं शनैः ॥ २८९ ॥ किमयं स्त्रीकामो द्रव्यकामो वृत्तिकामो वा तथा कस्यां किंसंबन्धिन्यां वा स्त्रियामस्य रतिरासीत्, कस्मिन् वा द्रव्ये प्रीतिः कुतो वा वृत्तिकामः, केन वासह देशान्तरं गत इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथक्पृथक् विश्वास्य प्रष्टव्याः । तथा मरणदेशनिकटवर्तिनो गोपाऽटविकाद्या ये जनास्तेऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाकारैः प्रश्नैर्हन्तारं निश्चित्य तदुचितो दण्डो विधातव्यः ॥ २८१ ॥ क्षेत्रवेश्मवनग्राम विवीतखलदाहकाः । राजपत्यभिगामी च दग्धव्यास्तु कटाग्निना ॥ २८२ ॥ १ अविज्ञात पुरुषेण ख. किंच | क्षेत्रं पक्कफलसत्योपेतम् । वेश्म गृहम् । वनमटवीं क्रीडावनं वा । ग्रामम् । विवीत मुक्तलक्षणम् खलं वा ये दहन्ति ये च राजपलीमभिगच्छन्ति तान्सर्वान्कटैर्वीरणमयैर्वेष्टयित्वा दहेत् । क्षेत्रादेर्दाहकानां मारणदण्डप्रसङ्गाद्दण्डविधानम् ॥ २८२ ॥ इति स्तेयप्रकरणम् । For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy