SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संभूयसमुत्थानप्र ० २२ ] मिताक्षरासहिता । २७३ विक्रयानुशयोऽभिहितः । क्रीतानुशयस्वरूपं तु प्राक् प्रपञ्चितम्। अधुना तदुभयसाधारणं धर्ममाह - क्षयं वृद्धिं च वणिजा पण्यानामविजानता । क्रीत्वा नानुशयः कार्यः कुर्वन्पागदण्डभाक् ॥ २५८ ।। परीक्षितक्रीतपण्यानां ऋयोत्तरकालं क्रयकालपरिमाणतोऽर्घकृतां वृद्धिमपइयता त्रा अनुशयो न कार्यः । विक्रेत्रा च महार्घनिबन्धनं पण्यक्षयमपश्यता नानुशयतिव्यम् । वृद्धिक्षयपरिज्ञाने पुनः क्रेतृ विक्रेत्रोरनुशयो भवतीति व्यतिरेकादुक्तं भवति । अनुशयकालावधिस्तु नारदेनोक्तः - ' क्रीत्वा मूल्येन यः पण्यं दुःक्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्वयविक्षतम् ॥ द्वितीयेऽह्नि ददत्ता मूल्यात्रिंशांशमावहेत् । द्विगुणं तु तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥' इति । अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्य निबन्धनानुशयावधि 'देशैकपञ्चससाहे' त्यादिना दर्शित एव । तदनया वाचोयुक्त्या वृद्धिक्षयपरिज्ञानस्यानुशयकारणत्वमगम्यते । यथा गण्यपरीक्षाविधिबलात्पण्यदोषाणामनुशयकारणत्वं अतः पण्यदोषतदृद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्यन्तरेऽपि यद्यनुशयं करोति तदा पण्यषङ्कागं दण्डनीयः । अनुशयकारणसद्भावेऽप्यनुशयका लातिक्रमेणानुशयं कुर्वतोऽप्ययमेव दण्डः । उपभोगेनाविनश्वरेषु स्थिरार्घेष्वनुशयकालातिक्रमेणानुशयं कुर्वतो मनूको दण्डो द्रष्टव्यः ( ८।२२३ ) – 'परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानो ददचैव राज्ञा दण्ड्यः शतानि षट् ॥' इति ॥ २५८ ॥ इति विक्रीया संप्रदानं नाम प्रकरणम् । अथ संभूयसमुत्थानप्रकरणम् २२ संभूयसमुत्थानं नाम विवादेपदमिदानीमभिधीयतेसमवायेन वणिजां लाभार्थं कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥ २५९ ॥ सर्वे वयमिदं कर्म मिलिताः कुर्म इत्येवंरूपा संप्रतिपत्तिः समवायः तेन ये वणिङ्गटनर्तकप्रभृतयो लाभ लिप्सवः प्रातिस्त्रिकं कर्म कुर्वते तेषां लाभालाभावुपचयापचयौ यथाद्रव्यं येन यावद्धनं पण्यग्रहणाद्यर्थं दत्तं तदनुसारेणावसेयौ । यद्वा । प्रधानगुणभावपर्यालोचनयास्य भागद्वयमस्यैको भाग इत्येवंरूपया संविदा समयेन यथा संप्रतिपन्नौ तथा वेदितव्यौ ॥ २५९ ॥ प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितम् । स तद्दद्याद्विवाच्च रक्षिताद्दशमांशभाक् ॥ २६० ॥ किंच । तेषां संभूय प्रचरतां मध्ये पण्यमिदमित्थं न व्यवहर्तव्यमिति प्रति १ यत्पण्यं दुष्क्रीतं ख. २ पदमधुना समभिदधाति घ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy