SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डपारुण्यप्रकरणम् १९] मिताक्षरासहिता । २६३ करोत्यसौ द्वात्रिंशतं पणान्दण्ड्यः ॥ यदा पुनर्गाढताडनेन लोहितं दृश्यते तदा द्वात्रिंशतो द्विगुणं चतुःषष्टिपणान्दण्डनीयः । त्वङ्मांसास्थिभेदे पुनर्विशेषो मनुना दर्शितः ( ८।२८४)-त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता च षनिष्कान्प्रवास्यस्त्वस्थिभेदकः ॥' इति ॥ २१ ॥ करपाददतो भङ्गे छेदने कर्णनासयोः । मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ २१९ ॥ किंच । करपाददन्तस्य प्रत्येकं भङ्गे कर्णनासस्य च प्रत्येकं छेदने रूढवणस्योअदने मृतकल्पो यथा भवति तथा हते ताडिते मध्यमसाहसो वेदितव्यः । अनुबन्धादिना विषयस्य साम्यमत्रापादनीयम् ॥ २१९ ॥ चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने । कन्धराबाहुसक्श्नां च भङ्गे मध्यमसाहसः ॥ २२० ॥ किंच । गमनभोजनभाषणनिरोधे नेत्रस्य आदिग्रहणाजिह्वायाश्च प्रतिभेदने । कन्धरा ग्रीवा, बाहुः प्रसिद्धः, सक्थि उरुस्तेषां प्रत्येकं भञ्जने मध्यमसाहसो दण्डः ॥ २२० ॥ एकं नतां बहूनां च यथोक्ताद्विगुणो दमः । अपिच । यदा पुनर्बहवो मिलिता एकस्याङ्गभङ्गादिकं कुर्वन्ति तदा यस्मिन्यस्मिन् अपराधे यो यो दण्ड उक्तस्तत्र तस्माद्विगुणो दण्डः प्रत्येक वेदितव्यः । अतिक्रूरत्वात्तेषां प्रातिलोम्यानुलोम्यापरोधयोरप्येतस्यैव सवर्णविषयेऽभिहितस्य दएडजातस्य वाक्पारुष्योक्तक्रमेण हानि वृद्धिं च कल्पयेत् । -'वाक्पारुष्ये य एवोक्तः प्रातिलोम्यानुलोमतः । स एव दण्डपारुष्ये दाप्यो राज्ञा यथाक्रमम् ॥' इति स्मरणात् ॥ कलहापहृतं देयं दण्डश्च द्विगुणस्ततः ॥ २२१ ॥ किंच । कलहे वर्तमाने यद्येनापहृतं तत्तेन प्रत्यर्पणीयम् । अपहृतद्रव्याविगुगाश्चापहारनिमित्तो दण्डो देयः ॥ २२१ ॥ दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् । दाप्यो दण्डं च यो यस्मिन्कलहे समुदाहृतः ॥ २२२ ॥ किंच । यो यस्य ताडनादुःखमुत्पादयेत्स तस्य व्रणरोपणादौ औषधार्थ पथ्यार्थं च यो व्ययः क्रियते तं दद्यात् । समुत्थानं व्रणरोपणम् । यस्मिन्कलहे यो दण्डस्तं च दद्यान्न पुनः समुत्थानजव्ययमात्रम् ॥ २२२ ॥ १ मांसास्थिविभेदे ख. २ पराधेप्येतस्येव घ. ३ य एवोक्तः प्रतिलोमानुलोमतः । स एव दण्डपारुष्ये राज्ञा कार्यों यथाक्रमम् घ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy