SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाक्पारुष्यप्रकरणम् १८ ] मिताक्षरासहिता । २५७ मासज्य स ह्येषां विनयः स्मृतः ॥' इति ॥ यानि च मनुवचनानि द्यूतनिषेधपराणि ( मनुः ९ । २२४ ) - ' द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । तासर्वान्धातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥' इत्यादीनि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि ॥ २०२ ॥ द्यूतमेकमुखं कार्य तस्करज्ञानकारणात् । किंच । यत्पूर्वोक्तं द्यूतं तदेकमुखं एकं मुखं प्राधानं यस्य द्यूतस्य तत्तथोक्तं कार्यम् । राजाध्यक्षाधिष्टितं राज्ञा कारयितव्यमित्यर्थः । तस्कर ज्ञानकारणात् । तस्करज्ञानरूपं प्रयोजनं पर्यालोच्य प्रायशश्चौर्यार्जितधना एव कितवा भवन्त्यतश्चरविज्ञानार्थमेकमुखं कार्यम् ॥ द्यूतधर्म समाह्वयेऽतिदिशन्नाह एष एव विधिर्ज्ञेयः प्राणिद्यूते समाये || २०३ || ग्लहे शतिकवृद्धेरित्यादिना यो द्यूतधर्म उक्तः स एव प्राणिद्यूते मलमेषमहिषादिनिर्वयै समाह्वयसंज्ञके ज्ञातव्यः ॥ २०३ ॥ इति द्यूतसमाह्वयाख्यं प्रकरणम् । अथ वाक्पारुष्यप्रकरणम् १८ 2 इदानीं वाक्पारुष्यं प्रस्तूयते । तलक्षणं चोक्तं नारदेन - ' देशजातिकुला - दीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥' इति । देशादीनामाक्रोशं न्यङ्गसंयुतम् । उच्चैर्भाषणमाक्रोशः न्यङ्गमवयं तदुभययुक्तं यत्प्रतिकूलार्थमुद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यं कथ्यते । तत्र कलहप्रियाः खलु गौडा इति देशाक्रोशः । नितान्तं लोलुपाः खलु विप्रा इति जात्याक्रोशः । क्रूरचरिता ननु वैश्वामित्रा इति कुलाक्षेपः । आदिग्रहणात्स्व विद्याशिल्पादिनिन्दया विद्वच्छिंपादिपरुषाक्षेपो गृह्यते । तस्य च दण्डतारतम्यार्थे निष्ठुरादिभेदेन त्रैविध्यमभिधाय तलक्षणं तेनैवोक्तम्– 'निष्ठुराश्लीलतीयत्वादपि तत्रिविधं स्मृतम् । गौरवानुक्रमात्तस्य दण्डोऽपि स्यात्क्रमाद्गुरुः । साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीक्रमाहुर्मनीषिणः ॥' इति । तत्र धियूर्खजाल्ममित्यादि साक्षेपम् । अत्र न्यङ्गमित्य सभ्यम् । अवयं भगिन्यादिगमनं तद्युक्तमश्लीलम् । सुरापोऽसीत्यादिमहापातकाद्याक्रोशैर्युक्तं वचस्तीव्रम् ॥ तत्र निष्ठुराक्रोशे सवर्णविषये दण्डमाहसत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् ॥ २०४ ॥ १ खलु लोलुपाः ख. २ शिल्पादि ख. घ. ३ धिर्ख जात्मस्त्वमित्यादि ग. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy