SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - २४० याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः गोस्वामिना उक्तम् । इदानीं गोपं प्रत्युपदिश्यते यथार्पितान्पशून्गोपः सायं प्रत्यर्पयेत्तथा। प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ॥१६४ ॥ गोस्वामिना प्रातःकाले गणयित्वा यथा समर्पिताः पशवस्तथैव सायंकाले गोपो गोस्वामिने पशून् विगणय्य प्रत्यर्पयेत् । प्रमादेन स्वापराधेन मृतानष्टांश्च पशून् कृतवेतनः कल्पितवेतनो गोपः स्वामिने दाष्यः । वेतनकल्पना च नारदेनोक्ता-गवां शताद्वत्सतरी धेनुः स्याविशताभृतिः । प्रतिसंवत्सरं गोपे संदोहश्वाष्टमेऽहनि ॥' इति । प्रमादनाशश्च मनुना स्पष्टीकृतः ( २३२)–'नष्टं जग्धं च कृमिभिः श्वहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥' इति ॥ प्रसह्य चौरैरैपहृतं न दाप्यः । यथाह मनुः (१२३३)-'विक्रम्य तु हृतं चौरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥' इति । दैवमृतानां पुनः कर्णादि प्रदर्शनीयम् । (१२३४) 'कौं चर्म च वालांश्च बस्ति स्नायुं च रोचनाम् । पंशुषु स्वामिनां दद्यान्मृतेष्वङ्गानि दर्शयन् ॥' इति मनुस्मरणात् ॥ १६४ ॥ पालदोषविनाशे तु पाले दण्डो विधीयते । अंधत्रयोदशपणः स्वामिनो द्रव्यमेव च ॥ १६५ ।। किंच पालदोषेणैव पशुविनाशे अंर्धाधिकत्रयोदशपणं दण्डं पालो दाप्यः। वामिनश्च द्रव्यं विनष्टपशुमूल्यं मध्यस्थकल्पितम् । दण्डपरिमाणार्थः श्लोकोऽन्यत्पूर्वोक्तमेव ॥ १६५ ॥ गोप्रसङ्गात् गोप्रचारमाह ग्राम्येच्छया गोप्रचारो भूमी राजवशेन वा । द्विजस्तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् ॥ १६६ ॥ ग्राम्येच्छया ग्राम्यजनेच्छया भूम्यल्पत्वमहत्त्वापेक्षया राजेच्छया वा गोप्रचारः कर्तव्यः । गवादीनां चरणार्थ कियानपि भूभागोऽकृष्टः परिकल्पनीय इत्यथैः । द्विजस्तृणेन्धनाद्यभावे गवाग्निदेवतार्थ तृणकाष्ठकुसुमानि सर्वतः स्ववदनिवारित आहरेत् । फलानि त्वंपवृतादेव । 'गोप्यर्थ तृणमेधांसि वीरुद्वनस्प १ द्विशतामृतिः घ. २ अपहृतान् ख. ३ विघुष्यत्विति पाठान्तरम्. ४ दैवराजमृतानां ख. ५ लायूनि रोचनाम्।६ पशुस्वामिषु दद्यात्तु मृतेष्वङ्गानि घ. पशुस्वामिषु दद्यात्तु मृतेष्वङ्गा ग. ७ अङ्कादि दर्शयेत् इति पाठः. ८ अर्धत्रयोदशपण इति अर्धरहितत्रयोदशपणः सार्धद्वादशपण इति यावत् । 'तास्तृतीयपूर्वपदाः समानाधिकरणेन समस्यन्त उत्तरपदलोपश्च' इति वार्तिकादुत्तरपदलोपी कर्मधारयः। यत्तु विज्ञानेश्वरेणार्धाषिकत्रयोदशपणो दण्ड इति व्याख्यातं तत् सार्धद्विमात्रादिषु अर्धत्रिमात्रादीति महाभाष्यकारशब्दप्रयोगदर्शनादुपेक्ष्यम्. ९ दोषेण पशु घ. १० ग्रामेच्छया ख. ११ प्रचारणार्थ ख. १२ त्वपरिवृतादेव ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy