SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः परसस्यविनाशकारिणी महिषी अष्टौ माषान्दण्डनीया । गौस्तदधै चतुरो माषान् । अजा मेषाश्च माषद्वयं दण्डनीयाः। महिष्यादीनां धनसंबन्धभावात्तत्स्वामी पुरुषो लक्ष्यते। माषश्चात्र ताम्रिकपणस्य विंशतितमो भागः। 'माषो विंशतिमो भागः पणस्य परिकीर्तितः' इति नारदस्मरणात् । एतच्चाज्ञानविषयम् । ज्ञानपूर्वे तु 'पणस्य पादौ द्वौ गां तु द्विगुणं महिषी तथा । तथाऽजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । यत्पुनर्नारदेनोक्तम्-'माषं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा । तथाजाविकवत्सानां दण्डः स्यादर्धमाषिकः ॥' इति तत्पुनःप्ररोहयोग्यमूलावशेषभक्षणविषयम् ॥ १५९॥ अपराधातिशयेन कचिद्दण्डद्वैगुण्यमाह भक्षयित्वोपविष्टानां यथोक्ताद्विगुणो दमः । यदि पशवः परक्षेत्रे सस्यं भक्षयित्वा तत्रैवानिवारिताः शेरते तदा यथोताद्दण्डाविगुणो दण्डो वेदितव्यः। सवत्सानां पुनर्भक्षयित्वोपविष्टानां यथोक्तदण्डाच्चतुर्गुणो दण्डो वेदितव्यः । 'वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः' इति वचनात् ॥ क्षेत्रान्तरे पश्वन्तरे चातिदेशमाह___सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम् ॥ १६० ॥ विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगृहीतो भूप्रदेशः । तदुपघातेऽपीतरक्षेत्रदण्डेन समं दण्डमेषां महिण्यादीनां विद्यात् । खराश्च उष्ट्राश्व खरोष्ट्रं तन्महिषीसमम् । महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रमपि प्रत्येकं दण्डनीयम् । सस्योपरोधकत्वेन खरोष्ट्रयोः प्रत्येकं महिषीतुल्यत्वाद्दण्डस्य चापराधानुसारित्वात्खरोष्ट्रमिति समाहारो न विवक्षितः॥१६०॥ परसस्यविनाशे गोस्वामिनो दण्ड उक्तः । इदानी क्षेत्रस्वामिने फलमप्यसौ दापनीय इत्याह यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् । गोपस्ताड्यश्च गोमी तु पूर्वोक्तं दण्डमर्हति ॥ १६१ ॥ सस्यग्रहणं क्षेत्रोपचयोपलक्षणार्थम् । यसिन्क्षेत्रे यावत्पलालधान्यादिकं गवादिभिर्विनाशितं तावत्क्षेत्रफलमेतावति क्षेत्रे एतावद्भवतीति सामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः । गोपस्तु ताडनीय एव न फलं दापनीयः । गोपस्य च ताडनं पूर्वोक्तधनदण्डसहितमेव पालदोषेण सस्यनाशे द्रष्टव्यम् । 'या नष्टा पालदोषेण गौस्तु सस्यानि नाशयेत् । न तत्र गोमिनो दण्डः पालस्तं दण्डमर्हति ॥' इति वचनात् ॥ गोमी पुनः स्वापराधेन सस्यनाशे १ गां तद्विगुणं घ. २ गोमिनां दण्डः ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy