SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः 'माताप्यंशं समं हरेत्' इत्यत्र च जीवनोपयुक्तमेव धनं स्त्री हरतीति मतं, तदसत् । अंशशब्दस्य समशब्दस्य चानर्थक्यप्रसङ्गात् । स्यान्मतम् । बहुधने जीवनोपयुक्तं धनं गृह्णाति अल्पे तु पुत्रांशसमांशं गृह्णातीति । तच्च न विधिवैषम्यप्रसङ्गात् । तथाहि 'पत्न्यः कार्याः समांशिकाः' 'माताप्यंशं समं हरेत्' इति च बहुधने जीवनमात्रोपयुक्तं वाक्यान्तरमपेक्ष्य प्रतिपादयति, अल्पधने तु पुत्रांशसममशं प्रतिपादयतीति । यथा चातुर्मास्येषु 'ट्ठयोः प्रणयन्ति' इत्यत्र पूर्वपक्षिणा सौमिकप्रणयनातिदेशे हेतुत्वेन प्राप्ताया उत्तरवेद्या 'न वैश्वदेवे उत्तरवेदिमुपकिरन्ति न शुनासीरीये' इत्युत्तरवेदिप्रतिषेधे दर्शिते राद्धान्तक. देशिना 'न सौभिकप्रणयनातिदेशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणोरयं प्रतिषेधः किंतूपात्र वपन्तीति प्राकरणिकेन वचनेन प्राप्ताया उत्तरवेद्याः प्रतिषेधोऽयमित्यभिहिते पुनः पूर्वपक्षिणोपात्र वपन्तीति प्रथमोत्तमयोः पर्वणोः प्रतिषेधमपेक्ष्य पाक्षिकीमुत्तरवेदिं प्रापयति मध्यमयोस्तु निरपेक्षमेव नित्यवदुतरवेदिं प्रापयती'ति विधिवैषम्यं दर्शितम् । राद्धान्तेऽपि विधिवैषम्यभयात्प्रथमोत्तमयोः पर्वणोरुत्तरवेदिप्रतिषेधो नित्यानुवादो द्वयोः प्रणयन्तीत्याद्यर्थवादपर्यालोचनयोपान वपन्तीति मध्यमयोरेव वरुणप्रघाससाकमेधपर्वणोरुत्तरवेदि विधत्त इति दर्शितम् । यदपि मतम् (मनुः ९।१८५)-पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति मनुस्मरणात्, तथा–स्वर्यातस्य स्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयौता ज्येष्ठा वा पत्नी' इति शङ्खस्मरणाच अँपुत्रस्य धनं भ्रातृगामीति प्राप्तं, 'भरणं चास्य कु.रस्त्रीणामाजीवनक्षयात्' इत्यादिवचनाच्च भरणोपयुक्तं धनं पत्नी लभत इत्यपि स्थितम् । एवं स्थिते बहुधने अपुत्रे स्वर्याते भरणोपयुक्तं पत्नी गृह्णाति शेषं च भ्रातरः । यदा तु पत्नीभरणमात्रोपयुक्तमेव द्रव्यमस्ति ततो न्यूनं वा तदा किं पत्त्येव गृह्णात्युत भातरोऽपीति विरोधे पूर्वबलीयस्त्वज्ञापनार्थ पत्नी दुहितर इत्यारब्धमिति । तदप्यत्र भगवानाचार्यों न मृष्यति । यतः (मनुः ९।१८५)-'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति विकल्पस्मरणान्नेदं क्रमपरं वचनमपि तु धनग्रहणेऽधिकारप्रदर्शनमात्रपरम् । तच्चासत्यपि पन्यादिगणे घटत इति व्याच. चक्षे । शववचनमपि संसृष्टंभ्रातृविषयमिति । अपिचाल्पविषयत्वमस्माद्वचनात्प्रकरणाद्वा नावगम्यते । 'धनभागुत्तरोत्तरः' इत्यस्य च पत्नी दुहितर इति विषयद्वये वाक्यान्तरमपेक्ष्याल्पधनविषयत्वम् , पित्रादिषु तु धनमात्रविषयत्वमिति पूर्वोक्तं विधिवैषम्यं तदवस्थमेवेति यत्किंचिदेतत् । यत्तु हारीतवचनम्'विधवा यौवनस्था चेन्नारी भवति कर्कशा । आयुषः क्षपणार्थ तु दातव्यं जीवनं तदा ॥' इति, तदपि शङ्कितव्यभिचारायाः सकलधनग्रहणनिषेधपरम् । अस्मादेव । १ स्त्रीधनमिति मतं घ. २ तथा ख. ३ द्वयोर्वरुणप्रघाससाकमेधपर्वणोः. ४ तूपात्त ख. तूपात्र घ. तूपात्रमित्येकस्मिन्प्रचीनपुस्तके. ५ प्रतिपादयति. ग. घ. ६ हरेतां घ. ७ अपुत्रधनं घ. ८ श्रवणात् घ. ९धिकारमात्रप्रदर्शनपरं घ. १० संसृष्टविषयं घ. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy