SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १९२ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः संयुते ॥ इति पितामहवचनात् । निमझानं पश्येच्चेच्छुद्धिमामुयादेति वदता उन्मज्जिताङ्गस्याशुद्धिर्दर्शिता । स्थानान्तरगमने चाशुद्धिः पितामहेनोका- 'अन्यथा न विशुद्धिः स्यादेकाङ्गस्यापि दर्शनात् ॥' इति 'स्थानाद्वान्यत्र गमनाद्यस्मिन्पूर्व निवेशितः ॥' इति । एकाङ्गस्यापि दर्शनादिति च कर्णाद्यमिप्रायेण । 'शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका । अप्सु प्रवेशने यस्य शुद्धं तमपि निर्दिशेत् ॥' इति विशेषाभिधानात् । अयमत्र प्रयोगक्रमः 'उक्तलक्षणजलाशय संनिधावुक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं निधाय तोरणसंनिधौ सशरं धनुः संपूज्य जलाशये वरुणमावाह्य पूजयित्वा तत्तीरे धर्मादींश्च देवान्हवनान्तमिष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रमाबध्य प्राड्विवाको 'जलमभिमन्त्रयते 'तोय त्वं प्राणिनां प्राणः' इत्यादिना मन्त्रेण । अथ शोध्यः - 'सत्येन' इत्यादिना मन्त्रेण जलममिमन्त्रय गृहीतस्थूणस्य नामिमात्रोदका-वस्थितस्य बलीयसः पुरुषस्य समीपमुपसंपति । अथ शरेषु त्रिषु मुक्तेषु मध्यमशरपातस्थाने मध्यमं शरं गृहीत्वा जविन्येकस्मिन्पुरुषे स्थिते अन्यस्मिंश्च तोरमूले स्थिते प्राङ्गिवाकेन तालत्रये दत्ते युगपद्रुमनमज्जनमथ शरानयनमिति ॥ १०९ ॥ इत्युदकविधिः । इदानीं विषविधानमाह त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । त्रायस्वास्मादभीचापात्सत्येन भव मेऽमृतम् ॥ ११० ॥ एवमुक्त्वा विषं शार्ङ्गं भक्षयेद्धिमशैलजम् । १ समीपे सशरं घ. Acharya Shri Kailassagarsuri Gyanmandir २ यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥ १११ ॥ एवं विषेत्यादिमन्त्रेण विषमभिमन्य कर्ता विषं हिमशैलजं शृङ्गभवं भक्षयेत् । तच्च भक्षितं सत् यस्य विषवेगैर्विना जीर्यति स शुद्धो भवति । विषगो नाम धातोर्धात्वन्तरप्राप्तिः । - ' धातोर्धात्वन्तरप्राप्तिर्विषवेग इति स्मृतिः' इति वचनात् । धातवश्च त्वगसृङ्यांसमेदोस्थिमज्जाशुक्राणीति सप्त । एवंच सबैव विषवेगा भवन्ति । तेषां च लक्षणानि पृथगेव विषतत्रे कथितानि – 'वेगो रोमामाद्यो रचयति विषजः स्वेदवक्रोपशोषौ तस्योर्ध्वस्तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपौ । यो वेगः पञ्चमोऽसौ नयति विवशतां कण्ठभङ्गं च हिक्कां षष्ठो निःश्वासमोहौ वितरति च मृर्ति सप्तमो भक्षकस्य ॥' इति । अत्र च महादेवस्य पूजा कर्तव्या । यथाह नारदः - 'दद्याद्विषं सोपवासो देवब्राह्मणसंनिधौ धूपोपहारमत्रैश्च पूजयित्वा महेश्वरम् ॥' इति । प्राङ्गिवाकः कृतोपवासो महादेवं पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादिपूजां हवनान्तां विधाय प्रतिज्ञापत्रं शोध्यस्य शिरसि निधाय विषमभिमन्त्रयते—'त्वं विष ब्रह्मणा सृष्टं परीक्षार्थ दुरात्मनाम् । पापानां दर्शयात्मानं शुद्धानाममृतं भव ॥ मृत्युमूर्ते I पूजा कार्या. ख. - For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy