SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९० याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः संशयस्तदा पुनर्हरेदित्यर्थप्राप्तमुक्तम् । तत्र चायमनुष्ठानक्रमः । पूर्वेद्युर्भूशुद्धिं विधायापरेद्युर्मण्डलानि यथाशास्त्रं निर्माय मण्डलाधिदेवताश्च मन्त्रैस्तत्र तत्र संपूज्यानिमुपसमाधाय शान्तिहोमं निर्वर्थ्यानावयः पिण्डं निधाय धर्मावाहनादिसर्व देवतापूजां हवनान्तां निर्वर्त्य उपोषितस्य स्नातस्यार्द्रवाससः पश्चिमे मण्डले तिष्ठतो व्रीहिमर्दनादिकरसंस्कारं विधाय प्रतिज्ञापत्रं समग्रकं कर्तुः शिरसि बवा प्राड्विवाकस्तृतीये तापेऽग्निमभिमन्य तप्तमयः पिण्डं संदेशेन गृहीत्वा कर्त्रभिमन्त्रितं तस्याञ्जलौ निदध्यात् । सोऽपि मण्डलानि सप्त गत्वा नवमे मण्डले प्रक्षिप्यादग्धः शुद्धो भवतीति ॥ १०७ ॥ इत्यग्निविधिः । संप्रत्युदकविधिमाह - सत्येन माऽभिरक्ष त्वं वरुणेत्यभिशाप्य कम् । नाभिदनोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ १०८ ॥ हे वरुण, सत्येन माममिरक्ष त्वमित्यनेन मन्त्रेण कमुदकमभिशाप्यामिमन्त्रय नाभिदनोदकस्थस्य नाभिप्रमाणोदकस्थितस्य पुरुषस्योरू गृहीत्वा शोध्यो जलं प्रविशेत् जले निमज्जेत् । एतच्च वरुणपूजायां सत्याम् । - ' गन्धमाल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः । वरुणाय प्रकुर्वीत पूजामादौ समाहितः ॥' इति नारदस्मरणात् । तथा साधारणधर्मेषु धर्मावाहनादिसकलदेवता पूजाहोमसमकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा - 'तोय त्वं प्राणिनां प्राणः सृष्टेराद्यं तु निर्मितम् । शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥ अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥' इति प्राड्रिवाकेनोदकाभिमन्त्रणे कृते शोध्यः 'सत्येन माऽभिरक्ष त्वं वरुण' ईति जलं प्रार्थयेत् । उदकस्थानानि च नारदेनोकान - 'नदीषु तनुवेगासु सागरेषु वहेषु च । हदेषु देवखातेषु तडागेषु सरःसु च' इति । तथा पितामहेनापि - 'स्थिरतोये निमँजेत न ग्राहिणि न चाल्पके । तृणशैवालरहिते जलौकामत्स्यवर्जिते ॥ देवखातेषु यत्तोयं तस्मिन्कुर्याद्विशोधनम् । आहार्य वर्जयेन्नित्यं शीघ्रगासु नदीषु च ॥ आविशेत्सलिले नित्यमूर्मिपङ्कविवर्जिते ॥' इति । आहार्य तडागादिभ्य आहृतं ताम्रकटाहादिक्षितं जलम् । नाभिप्रमाणोदकस्थश्च यज्ञियवृक्षोद्भवां धर्मस्थूणामवष्टभ्य प्राङ्मुखस्तिष्ठेत् । - ' उदके प्राङ्मुखस्तिष्ठेद्धर्मस्थूणां प्रगृह्य च ।' इति स्मरणात् ॥ १०८ ॥ ततः किं कर्तव्यमित्यत आह 1 - समकालमिषु मुक्तमानीयान्यो जवी नरः । गते तस्मिन्निमग्नाङ्गं पश्येच्चेच्छुद्धिमाप्नुयात् ॥ १०९ ॥ निमज्जनसमकालं गते तस्मिन् जविन्येकस्मिन्पुरुषे भन्यो जवी शरपातस्था १ भूतशुद्धिं ख. २ पश्चिममण्डले ख. ग. ३ संदंश केन घ. ४ अभिशय्य ग. अभिशाय्य घ. ५ देवपजा घ. ६ इत्युक्तं प्रार्थयते ख. ग. ७ निमज्जेत्तु ख. ८ जलूका ध. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy