SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋणादानप्रकरणम् ३ ] मिताक्षरासहिता। १५७ भूषु सत्सु धनिकस्योत्तमर्णस्य यथारुचि यथाकामम् । अतश्च धनिको वित्ताधपेक्षायां स्वार्थं यं प्रार्थयते स एव कृत्स्नं दाप्यो नांशतः । एकच्छार्याश्रितेषु यदि कश्चिद्देशान्तरं गतस्तत्पुत्रश्च संनिहितस्तदा धनिकेच्छया सर्व दाप्यः । मृते तु कस्मिंश्चित्तत्सुतः स्वपित्रंशमवृद्धिकं दाप्यः । यथाह कात्यायन:'एकच्छायाप्रविष्टानां दाप्यो यस्तत्र दृश्यते । प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते समम् ॥' इति ॥ ५५ ॥ प्रातिभाव्यर्णदानविधिमुक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधिमाह प्रतिभू पितो यत्तु प्रकाशं धनिनो धनम् । द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ॥ ५६ ॥ यद्रव्यं प्रतिभूस्तत्पुत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षं राज्ञा धनिनो दापितो न पुनद्वैगुण्यलोभेन स्वयमुपैत्य दत्तम् । यथाह नारदः-'यं चार्थ प्रतिभूर्दद्याद्धनिकेनोपपीडितः । ऋणिकस्तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ॥' इति । ऋणिकैरधमर्गस्तस्य प्रतिभुवस्तद्र्व्यं द्विगुणं प्रतिदातव्यं स्यात्। तच्च कालविशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यम् । वचनारम्भसामर्थ्यात् । एतच्च हिरण्यविषयम् ॥ ननु इदं प्रतिभूरिति वचनं द्वैगुण्यमानं प्रतिपादयति तच्च पूर्वो. क्तकालकल्पक्रमाबाधेनाप्युपपद्यते । यथा जातेष्टिविधानं शुचित्वाबाधेन । अपिच सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यः संतत्यभावान्मूल्यदानमेव प्राप्नोतीति । तदसत्- 'वस्नधान्यहिरण्यानां चतुस्विद्विगुणा परा' इत्यनेनैव कालकल्पक्रमेण द्वैगुण्यादिसिद्धेः । द्वैगुण्यमात्रविधाने चेदं वचनमनर्थकं स्यात् । पशुस्त्रीणां तु कालक्रमपक्षेऽपि संतत्यभावे स्वरूपदानमेव । यदा प्रतिभूरपि द्रव्यदानानन्तरं कियतापि कालेनाधमणेन संघटते तदा "संततिरपि संभवत्येव। यद्वा पूर्वसिद्धसंतत्या सह पशुस्त्रियो दास्यन्तीति न किंचिदेतत् । अथ प्रातिभाव्यं प्रीतिकृतं । अतश्च प्रतिभुवा दत्तं प्रीतिदत्तमेव । नच प्रीतिदत्तस्य याच. नात्प्राग्वृद्धिरस्ति । यथाह–'प्रीतिदत्तं तु यत्किंचिद्वर्धते न त्वयाचितम् । याच्यमानमदत्तं चेद्वर्धते पञ्चकं शतम् ॥' इति । अतश्चाप्रीतिदत्तस्यायाचितस्यापि दानदिवसादारभ्य यावद्विगुणं कालक्रमेण वृद्धिरित्यनेन वचनेनोच्यत इति । तदप्यसत् । अस्यार्थस्यास्माद्वचनादप्रतीतेर्द्विगुणं प्रतिदातव्यमित्येतावदिह प्रतीयते । यस्मात्कालक्रममनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्यादिति सुष्टूक्तम् ॥ ५६ ॥ प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवादमाह संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च । वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥ ५७॥ १ वित्ताद्यपेक्षया घ. २ यः प्रार्थयते ख. ३ दद्यान्नांशतः ख. ४ तेष्वेकछाया ख. ५ मृते सति घ. ६ धनिनां घ. ७ ऋणिकं तं ग. ८ प्रतिदापयेत् ग. ९ इदं वचनं ग. घ. १० नतु कालकलाक्रमादिकम्. ११ वस्त्रदान ख. १२ संततिरेवं ख. १३ प्रीतिकृतं च ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy