SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः तरसुतस्तृतीयो नागमं नापि विशिष्टं भोगमुद्धरेदपितु क्रमागतं भोगमात्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशिष्टभो. गानुद्धरणे चेत्यभिहितम् । तत्र तयोद्धितीयतृतीययोर्भुक्तिरेव गरीयसी । तत्रापि द्वितीये गुरुस्तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्वपयागमानुद्धरणेऽर्थहानिः समानैव, दण्डे तु विशेष इति तात्पर्यार्थः । उक्तंच हारीतेन--'आगमस्तु कृतो येन स दण्ड्यस्तमनुद्धरन् । न तत्सुतस्तत्सुतो वा भोग्यहानिस्तयोरपि ॥' इति ॥२८॥ अस्मार्तकालोपभोगस्यागमज्ञाननिरपेक्षस्य प्रामाण्यमुक्तं विनापूर्वक्रमागतादित्यत्र तस्यापवादमाह योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् । न तत्र कारणं भुक्तिरागमेन विना कृता ॥ २९ ॥ यदा पुनराहादिरमियुक्तोऽकृतव्यवहारनिर्णय एव परेतः स्यात् परलोकं गतो भवेत्तदा तस्य रिक्थी पुत्रादिस्तमागममुद्धरेत् । यस्मात्तत्र तस्मिन्व्यवहारे भुक्तिरागमरहिता साक्ष्यादिमिः साधितापि न प्रमाणम् । पूर्वाभियोगेन भोगस्य सापवादत्वात् । नारदेनाप्युक्तम्-'तथारूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्रेण सोऽर्थः संशोध्यो न त भोगो निवर्तयेत् ॥' इति ॥ २९ ॥ अनिर्णीतव्यवहारे व्यवहर्तरि प्रेते व्यवहारो न निवर्तत इति स्थितम् । निणीतेऽपि व्यवहारे स्थिते च व्यवहर्तरि व्यवहारः कचित्प्रवर्तते कचिन्न प्रवर्तत इति व्यवस्थासिद्धये व्यवहारदर्शिनां बलाबलमाह नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । पूर्व पूर्व गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ ३०॥ नृपेण राज्ञा अधिकृताः व्यवहारदर्शने नियुक्ताः----'राज्ञा सभासदः कार्याः' इत्यादिनोक्ताः पूगाः समूहाः । मिनजातीनां भिन्नवृत्तीनां एकस्थाननिवासिनां यथा ग्रामनगरादयः । श्रेणयो नानाजातीनामेकजातीयकर्मोपजीविनां संघाताः । यथा हेडाबुकादीनां ताम्बूलिक/विन्दचर्मकारादीनां च । कुलानि ज्ञातिसंबन्धिबन्धूनां समूहाः । एतेषां नृपाधिकृतादीनां चतुणां पूर्व पूर्वं यद्यत्पूर्व पठितं तत्तद्गुरु बलवज्ज्ञेयं वेदितव्यम् । नृणां व्यवहर्तृणां व्यवहारविधौ व्यवहारदर्शनकार्ये एतदुक्तं भवति । नृपाधिकृतैर्निर्णीते व्यवहारे पराजितस्य यद्य. प्यसंतोषः कुदृष्टिबुद्ध्या भवति तथापि न पूगादिषु पुनर्व्यवहारो भवति । एवं पूगनिर्णीतेऽपि न श्रेण्यादिगमनम् । तथा श्रेणिनिर्णीते कुलगमनं न भवति । कुलनिर्णीते तु श्रेण्यादिगमनं भवति । श्रेणीनिर्णीते पूगादिगमनम् । पूगनिर्णीते १ भोग्येति । भोग्यहानिरर्थहानिस्तदनुद्धरणे तयोद्वितीयतृतीययोरित्यर्थः. २ तथाशब्दः पूर्वसमुच्चये । नवारूढः. ख. ग. ३ निवारयेत्. घ. ४ अधिकृताः प्राड्विवाकादयः ५ देशान्तरं गत्वा प्रस्थाप्य वाऽश्वविक्रेतारो हेडाबुकाः, ६ कुविन्दस्तन्तुवायः. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy