SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir असाधारणव्य०मा०प्र०२] मिताक्षरासहिता। आध्यादिष्वपि विंशतेरूर्व पत्रदोषोद्भावननिराकरणस्य सैमत्वेनाधिसीमेत्याधुपवादासंभवात् । यथाह कात्यायन:-'अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितः। तेन लेख्येन तसिद्धिर्लेख्यदोषविवर्जिता॥' तथा-'सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥' इति । ए. तेन धनस्य दशवार्षिकीत्येतदपि प्रत्युक्तम् । तस्मादस्य श्लोकस्य सैत्योऽर्थो वक्तव्यः । उच्यते-भूमेधनस्य च फलहानिरिहै विवक्षिता न वस्तुहानिर्नापि व्यवहारहानिः । तथाहि-निराक्रोशं विंशतिवर्षोपभोगादूर्ध्व यद्यपि स्वामी न्यायतः क्षेत्रं लभते तथापि फैलानुसरणं न लभते । अप्रतिषेधलक्षणात्स्वापराधादस्माच्च वचनात् । परोक्षभोगे तु विंशतेरूर्ध्वमपि फलानुसरणं लभत एव, पश्यत इति वचनात् । प्रत्यक्षभोगे च साक्रोशे, अब्रुवत इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निराक्रोशे च लभते विंशतिग्रहणात् । ननु तदुत्पन्नस्यापि फलस्य स्वत्वात्तद्धानिरनुपपन्नैव बाढम् । तस्य स्वरूपाविनाशेन तथैवावस्थाने यथा तदुत्पन्नपूगपनसवृक्षादीनां यत्पुनस्तदुत्पन्नमुपभोगानष्टं तत्र स्वरूपनाशादेव स्वत्वनाशे-'अनागमं तु यो मुझे बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥' इत्यनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवत्तत्समं द्रव्यदानं प्राप्त, हानिर्विशतिवार्षिकीत्यनेनापोद्यते । राजदण्डः पुनरस्त्येव विंशतेरूर्वमपि, अनागमोपभोगादपवादाभावाच्च । तस्मात्स्वाम्युपेक्षालक्षण वापराधादसाच्च वचनाद्विशतेरूवं फलं नष्टं न लभत इति स्थितम् । एतेन धनस्य दशवार्षिकीत्येतदपि व्याख्यातम् ॥ २४ ॥ अस्थापवादमाह आधिसीमोपनिक्षेपजडबालधनैर्विना । तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥ २५ ॥ आधिश्च सीमा च उपनिक्षेपश्च आधिसीमोपनिक्षेपाः। जडश्च बालश्च जडबालौ तयोर्धने जडबालधने आधिसीमोपनिक्षेपाच जडबालधने च आधिसीमोपनिक्षेपजडबालधनानि तैर्विना। उपनिक्षेपो नाम रूपसंख्याप्रदर्शनेन रक्ष. णार्थं परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः- स्वं द्रव्यं यत्र विस्त्रम्भासिक्षिपत्यविशङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥' इति । उपनिधानमुपनिधिः । आध्यादिषु पश्यतोऽब्रुवतोऽपि भूमेशितेरूवं धनस्य च दशभ्यो वर्षेभ्य अर्ध्वमप्युपचयहानिर्न भवति । पुरुषापराधस्य तथाविधस्याभावात् , उपेक्षाकारणस्य तत्र तत्र संभवात् । तथाहि-आधेराधित्वोपाधिक १ समत्वेनापवादासंभवान् ख. २ सत्योऽर्थों निर्दुष्टोऽर्थः. सभ्योन्योर्थों ग. पाठः. ३ इह पश्यत इत्यत्र वचने. ४ तावत्पर्यन्तं ततस्तेन लब्धेत्यादिः. ५ प्राप्तं, तत् द्रव्यदानम्. ६ अपोचते बाध्यते. ७ स्वत्वहेतुः प्रतिग्रहक्रयादिरागमः. ८ तस्योपनिधि ग. ९ यत् स्वं द्रव्यं यत्र परहस्ते विस्रम्भाद्विश्वासान्निक्षिपति. १० उपचयहानिः फलहानिः. ११ तत्र तत्र आध्यादिषु. १२ आधित्वनिमित्तकः. इति पाठः, For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy