SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः दिकमव्यभिचारादनुमापयन्त्यनुपपद्यमाना वा कल्पयन्तीत्यनुमानेऽर्थापत्तौ चान्तर्भवतीति प्रमाणमेव । एषां लिखितादीनां त्रयाणामन्यतमस्याप्यभावे दि. व्यानां वक्ष्यमाणस्वरूपभेदानामन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाणमुच्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यममादेव वचनादवगम्यते । दिव्यस्य स्वरूपप्रामाण्ययोरागमगम्यत्वात् । अतश्च यत्र परस्परविवादेन युगपद्धर्माधिकारिणं प्राप्तयोरेको मानुषी क्रियामपरस्तु दैवीमवलम्बते तत्र मानुष्येव ग्राह्या । यथाह कात्यायनः-'ययेको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् । मानुषी तत्र गृह्णीयान्नतु दैवीं क्रियां नृपः ॥' इति । यत्रापि प्रधानैकदेशसाधनं मानुष संभवति तत्रापि न देवमाश्रयणीयम् । यथा रूपकशतमनया वृद्ध्या गृहीत्वार्य न प्रयच्छतीत्यभियोगापह्नवे---ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धि विशेषे वा, अतो दिव्येन भावयामीत्युक्ते तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धिविशेषसिद्धेनं दिव्यस्थावकाशः । उक्तंच-कात्यायनेन-'ययेकदेशव्याप्तापि क्रिया विद्येत मानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वदतां नृणाम् ॥' इति । यत्तु-'गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम्' इति तदपि मानुषासंभवकृतनियमार्थम् । यदपि नारदेनोक्तम्-'अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥' इति । तदपि मानुषासंभव एव । तस्मान्मानुषाभाव एव दिव्येन निर्णय इत्यौत्सर्गिकम् । अस्य चाप. वादो दृश्यते-'प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु साक्षिणो दिव्यमेव च ॥' इति । तथा लेख्यादीनामपि कचिनियमो दृश्यते। यथा-'पूंगश्रेणीगणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥' तथा-'द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया। भुक्तिरेव तु गुर्वी स्यान्न दिव्यं न च साक्षिणः ॥' तथा-'दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनमनिच्छति ॥ द्यूते सैमाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥' इति ॥ २२॥ उभयत्र प्रमाणसद्भावे प्रमाणगतबलाबलविवेके चासति पूर्वापरयोः कार्ययोः कस्य बलीयस्त्वमित्यत आह सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया। ऋणादिषु सर्वेष्वर्थविवादेषु उत्तरा क्रिया क्रियत इति क्रिया कार्य बलवती। १ अनुमाने इति-क्षेत्रादिकमस्य क्रयादिप्राप्तम् आसेधरहितत्वेसति चिरकालोपभुक्तत्वात् तदीयगृहादिवत् इत्यनुमानप्रयोगः. २ तादृशी भुक्तिः स्वतोऽनुपपद्यमाना तादृशं तत्कल्पयतीत्यर्थापत्तिर्बोध्या. ३ अत्र समस्तस्यः प्रधानैकदेश इति विग्रहः. ४ इति योऽभियोगस्तस्यापह्नवे परेण कृते सति. ५ संख्यावृद्धिविशेषयोः सिद्धेः. ६ पूर्वापि ग. ७ वदतां वादिनां. दैवी विवदतां ख. ८ मानुषसंभवकृतनियमार्थमिति पाठः. ९ पूगादीनां विवरणमग्रे ३० तमे पये स्फुटम्. १० आभोगः परिणाहः । तेनच परिणाहवदङ्गणादिकं लक्ष्यते. जलवाहो जलनिर्गममार्गः. ११ दत्तति बहुवचनान्तयोर्द्वन्द्वः दत्तादत्तं विद्यते येषु दत्ताप्रदानिकाख्यविवादपदेषु. १२ विक्रीयासंप्रदानाख्ये. १३ समायः प्राणिद्यूतम्. १४ वादिप्रतिवाद्युक्तयोः. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy